________________
निरूपणम्]
सव्याख्यालङ्कारसर्वस्वोपेतम् । त्माक्षेपः । यथा"गच्छ गच्छासे चेत् कान्त! पन्थानः सन्तु ते शिवाः ।
ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् ॥” अत्र कयाचित् कान्तप्रस्थानमनिष्टमप्यनिराकरणमुखेन विधीयते । न चास्य विधिर्युक्तः, आनिष्टत्वात् । सोऽयं प्रस्खलद्रूपत्वेन निषेधमागूरयति । फलं चात्रानिष्टस्य कान्तप्रस्थानस्यासंविज्ञातपदनिबन्धनमत्यन्तपरिहार्यत्वप्रतिपादनम् । इदं च ममापि जन्म तत्रैवेत्याशीःप्रतिपादनेनानिष्टपर्यवसायिना व्यञ्जितम् । यथावा -- "नो किञ्चित् कथनीयमस्ति सुभग! प्रौढाः परं त्वादृशाः
पन्थानः कुशला भवन्तु भवतः को मादृशामाग्रहः । किन्त्वेतत् कथयामि सन्ततरतिक्लान्तिच्छिदस्तास्त्वया
स्मर्तव्याः शिथिलाः सहसरुचयो गोदावरीवीचयः ॥" अत्रानभिप्रेतमेव कान्तप्रस्थानं यदा प्रमुख एवाभ्युपगम्यतन्निष्ठविशेषावगमनहेतुः । ननु गच्छ गच्छसीत्यत्र गमनस्य विधिन प्रतीयते । अपितु कामचाराभ्यनुज्ञामात्रम् । तत् कथमस्य विधिरित्यत आह - अनिराकरणमुखेनेति । कान्तप्रस्थानस्यानिष्टत्वेन निराकर्तव्यस्याप्यनिराकरणेन विधिरवसीयत इत्यर्थः । अस्य प्रस्थानस्य । फलं चात्रेत्यादि । अत्र विधिमुखेनानिष्टस्य निषेधाक्षेपे । प्रस्थानस्येत्यस्यात्यन्तपरिहार्यत्वेत्यनेनान्वयः । असंविज्ञातपदनिबन्धनमिति । संविज्ञातं पदं वाचकश्च शब्दो यस्य न स्तः, तदसंविज्ञातपदम् । वाङ्मनसागोचर इति यावत् । तथाविधमतिशयितदुःखावहम् । तद् निबन्धनं हेतुर्यस्यात्यन्तपरिहार्यत्वप्रतिपादनस्य तत् तथा । अनिष्टपर्यवसायिनेति । प्रियतमस्यानभिमते मरणे पर्यवस्यता । प्रमुख एवेति । न प्ररोहे । अभ्यु
१. 'स्य प्र', २, ‘एतच्च म' क. ख. पाठः,