________________
१३२ अलङ्कारसूत्रं
[आक्षेप न निषेधाभासस्य । महोदधेरम्भःकुम्भपरिच्छेदशक्तिनिदर्शनेन हयग्रीवगुणानां वक्तुमशक्यत्व एवात्र तात्पर्यम् । तन्निमित्तक एवात्र चमत्कारो न निषेधाभासहेतुक इति नाक्षेपध्वनिधीरत्र कार्या । सर्वथेष्टानिष्टस्य निषेधाभासस्य विध्युन्मुखस्याक्षेपत्वमिति स्थितम् ।
इत्थमिष्टनिषेधेनाक्षेपमुक्त्वा समानन्यायत्वादनिष्टविधिनाक्षेपमाह
___ अनिष्टविध्याभासश्च ॥ ३९ ॥
यथेष्टस्येष्टत्वादेव निषेधोऽनुपपन्नः, एवमनिष्टस्यानिष्टत्वादेव विधानं नोपपद्यते । तत् क्रियमाणं प्रस्खलद्रूपत्वाद् विध्याभासे पर्यवस्यति । ततश्च विधेरुपकरणीभूतो निषेध इति विधिनायं निषेधोऽनिष्टविशेषपर्यवसायी निषेधागूरणामानस्तात्पर्यचमत्कारविषयत्वादनाभासरूप इति नात्राक्षेपध्वनिभ्रमः कार्य इत्यर्थः । सर्वथेति । वाच्यो वा भवतु गम्यो वेत्यर्थः ॥
समानन्यायत्वादिति । अविषयनिष्ठत्वेनाभासरूपत्वादितराक्षेपकत्वं समानन्यायता । अनिष्टविध्याभासश्चेत्यत्र चकारेणाक्षेप इत्यस्यानुकर्षः । सङ्गत्यर्थमुपक्षिप्तं समानन्यायत्वमेव दर्शयति - यथेत्यादिना । प्रस्खलद्रूपत्वादिति । अनिष्टविषयत्वेन बाधितस्वरूपत्वात् । उपकरणीभूत इति । अनभिमतविषयत्वादनुपपद्यमानेन विधिना स्वोपपादकतयानुपपत्तिनिरासायाक्षिप्तत्वाद् विधिं प्रत्युपकरणः शेषः सम्पन्न इति केचिद् व्याचक्षते । अन्ये तु निषेधस्यैव तात्पर्यगोचरत्वाद् विधेविपर्ययादनुपपद्यमा(ने ? नत्वे)न मत्वर्थीयान्तादुपकरणशब्दाच्च्चिप्रत्यय इति व्याचक्षाणाः स्वाक्षेपकतयोपकरणभूतेन विधिनोपकरणवान् भूतो निषेध इत्याहुः । अनिष्टविशेषपर्यवसायीति । यद् विधातुमनिष्टमपि विहितं,' तत्
१. 'स्याप्यनि' क. ख. पाठः. २. 'च्यो भ' क. ग. पाठः. ३. 'पन्नः शे' ख. ग. पाठः, ४. 'पत' ख. पाठा,