________________
निरूपणम्]
सव्याख्यालङ्कारसर्वस्वोपेतम् । इत्यत्रं च नाक्षेपभ्रमः कार्यः । विहितनिषेधो ह्ययम् । नचासावाक्षेपः । निषेधेन विधौ तस्य भावादित्युक्तत्वात् । चमकारोऽप्यत्र निषेधहेतुक एवेति नै तत्सद्भावमात्रेणाक्षेपधीः कार्या । अयं चाक्षेपो ध्वन्यमानोऽपि भवति । यथा -
"गणिकासु विधेयो न विश्वासो वल्लभ ! त्वया ।
किं किं न कुर्वतेऽत्यर्थमिमा धनपरायणाः ॥" अत्र हि गणिकायाँ एवोक्तौ तदोषोक्तिप्रस्तावे नाहं गणि. केति प्रतीयते । न चासौ निषेध एव, गणिकात्वेनावस्थितयैव गणिकात्वस्य निषेधनात् । सोऽयं प्रस्खलद्रूपो निषेधो निषेधाभासरूपो वक्त्र्या गणिकायाः शुद्धस्नेहनिबन्धनत्वेन धनविमुखत्वादी विशेषे पर्यवस्यतीत्युक्तविषय आक्षेपध्वनिरयम्। नतु
“स वक्तुमखिलाञ् शक्तो हयग्रीवाश्रितान् गुणान् । ___ योऽम्बुकुम्भैः परिच्छेदं शक्तो ज्ञातुं महोदधेः ॥” इत्याक्षेपध्वनावुदाहार्यम् । निषेधस्यैवात्र गम्यमानत्वात् । निषेधेऽप्याक्षेपभ्रमो न कार्य इत्याह-इह त्वित्यादिना । विहितनिषेधो ह्ययमिति । साहित्येति बाणेनेति च प्रथमाभ्यां श्लोकाभ्यां विहिते रक्षणाभ्यर्थने उत्तराभ्यां गृह्णन्तु सर्वे इति यद्वा मृषा इति च श्लोकाभ्यां निविध्येते । निषेधेन विधाविति । आक्षिप्त इति शेषः । चमत्कारोऽप्यवेत्यादिना आक्षेपत्वनिबन्धनं निषेधस्याभासत्वं नास्तीत्याह । तत्सद्भावः निषेधसद्भावः । न परमाक्षेपस्य वाच्यत्वम् , उत्प्रेक्षावद् गम्यत्वमपीत्याह-अयं चेत्यादि । उक्तविषय इति । 'बाळअ ! णाहं दूईत्यादिवत् । वस्तुनिषेधस्तत्र वाच्यः, इह पुनर्गम्यः । न त्वित्यस्योदाहार्यमित्यनेन संबन्धः । निषेधस्यैवेति । हयग्रीवगुणवक्तृलक्षणवस्तुनिषेधो गम्य१. 'त्र ना', २. 'न तु तद्रा', ३. 'नो भ', ४. 'था उक्तो', ५. 'धाभासा व'
क. ख. पाठः,