________________
अलङ्कारसूत्रं
[आक्षेप
प्रकारोऽलङ्कार इति चेद्, व्याघातख्यस्यालङ्कारस्यायं द्वि
तीयो भेद इति वक्ष्यते ।
१३०
4
" तदिष्टस्य निषेध्यत्वमाक्षेपोक्तेर्निबन्धनम् । सौकर्येणान्यकृतये न निषेधकता पुनः ॥”
इति पिण्डार्थः । इह तु - "साहित्यपाथोनिधिमन्थनोत्थं काव्यामृतं रक्षत हे कवीन्द्राः ! | यत् तस्य दैत्या इव लुण्टनाय काव्यार्थ चोराः प्रगुणीभवन्ति ॥
गृह्णन्तु सर्वे यदि वा यथेच्छं
नास्ति क्षतिः कापि कवीश्वराणाम् । रत्नेषु लुप्तेषु बहुष्वमर्त्यै
रद्यापि रत्नाकर एव सिन्धुः ॥"
इति । तथा
"बाणेन हत्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य । इत्यर्थनीयः शबराधिराजः श्रीकण्ठपृथ्वीधर कन्दरस्थः ॥ या मृषा तिष्ठतु दैन्यमेतन्नेच्छन्ति वैरं मरुता किराताः । केलिप्रसङ्गे शबराङ्गनानां स हि श्रमग्लानिमपाकरोति ॥" कोऽलङ्कार इत्यन्वयः । द्वितीयो भेद इति । 'सौकर्येण कार्यविरुद्धा क्रिया चे'ति लक्षितः । उक्तमर्थं सुखप्रतिपत्तये श्लोकेन संगृह्णाति - तदिष्टस्येति । निषेध्यत्वं निषेधविषयत्वम् । आक्षेपोतेराक्षेपालङ्कारव्यपदेशस्य । सौकर्येत्यादि । यद् यत्कार्यसाधकत्वेन संम्भावितं, तस्य तत्कार्यापेक्षया सुकरतमत्वादन्यस्य तद्विरुद्धस्य कार्यस्य निष्पादनाय सिसाधयिषितकार्यस्य निषेधकता नाक्षेपोक्तेर्निबन्धनमित्यर्थः । एवं विहित
१. 'तस्या' क. ख. पाठः.