SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ निरूपणम्] सम्याख्यालङ्कारसर्वस्वोपेतम् । विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसङ्घटना चावि षमम् ॥४५॥ विरोधप्रस्तावेनेह लक्षणम् । तत्र कारणगुणप्रक्रमेण कार्यमुत्पद्यत इति प्रसिद्धौ यद् विरूपं कार्यमुत्पद्यमानं दृश्यते, तदेकं विषमम् । तथा कञ्चिदर्थ साधयितुमुद्यतस्य न केवलं तस्यार्थस्याप्रतिलम्भः, यावदनर्थप्राप्तिरपीति द्वितीयं विषमम् । अत्यन्ताननुरूपसङ्घटनयोर्विरूपयोश्च सङ्घटना तृतीयं विषमम् । अननुरूपसंसर्गों हि विषमम् । क्रमेण यथा"सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा । तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते ॥" "तीर्थान्तरेषु मलपङ्कवतीविहाय दिव्यास्तनूस्तनुभृतः सहसा लभन्ते । वाराणसि ! त्वयि तु मुक्तकलेबराणां लाभोऽस्तु मूलमपि यात्यपुनर्भवाय ॥" विरूपकार्येत्यादि । अस्य विषमस्य सामान्यलक्षणं स्वयमेव वक्ष्यति - 'अननुरूपसंस! हि विषममिति । अत्र विरूपकार्ये कारणगुणविरुद्धेन गुणेन कार्यसंसर्गादननुरूपसंसर्गः, द्वितीये इष्टसिद्धयर्थस्य व्यापारस्यानिष्टफलयोगात् । तृतीये पुनः स्फुट एव सः। विरोधप्रस्तावेनेति । विरोधश्चात्र प्रसिद्धरन्यथाभावः । स चाये कार्येण कारणगुणाननुविधानाद् , द्वितीये अर्थसाधनतया प्रसिद्धस्यानर्थोत्पादनात् , तृतीये अघटमानत्वेन प्रसिद्धयोर्घटनात् । यावदनर्थप्राप्तिरपीति । अत एव विशेपोक्तेर्भेदः । विरूपयोरित्यस्य व्याख्या--- अत्यन्ताननुरूपसकटनयोरिति । १. 'मम् । क' क, ख. पाठः. २. 'णवि' ख. पाठ:.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy