________________
१२८
अलङ्कारसूत्रं
[आक्षेप
"सुहअ ! विळम्बसु थोअं जाव इमं विरहकाअरं हिअअं । संठविऊण भणिस्सं अहवा बोळेसु किं भणिमो ॥" "ज्योत्स्ना तमः पिकवचः क्रकचस्तुषारः क्षारो मृणालवलयानि कृतान्तदन्ताः । सर्वं दुरन्तमिदमद्य शिरीषमृद्धी
सा नूनमाः किमथवा हतर्जल्पितेन ॥" आधे उदाहरणइये यथाक्रमं वस्तुनिषेधेन भणितिनिषेधेन चोक्तविषय आक्षेपः । तत्र चोक्तस्य दूतीत्वस्य वस्तुनो निषेधमुखेन सत्यवादित्वादिर्विशेषः । तथा भण्यमानस्य प्रसादस्य निषेधमुखेनैव कोपोपरागनिवर्तने नावश्यस्वीकार्यत्वं विशेषः । उत्तरस्मिन् पुनरुदाहरणद्वये यथाक्रमं सामान्यद्वारेणेष्टस्यांशोक्ता वंशान्तरस्य स्वरूपेण च भणितिनिषेधे वक्ष्यमाणविषय आक्षेपः । तत्र च वक्ष्यमाणस्येष्टस्य भणिस्सं सुहअ इत्यादि ।
सुभग! विलम्बस्व स्तोकं यावदिदं विरहकातरं हृदयम् । संस्थाप्य भणिष्याम्यथवापक्राम किं भणामः ॥
-
यथाक्रममिति । आद्ये उदाहरणे 'णाहं दूई' इति दूतीत्वलक्षणस्यासत्यवादित्वाद्यवेिनाभूतस्य वस्तुनः कैमर्थक्यमालोच्यते, द्वितीये तु प्रसीदेत्यादिरूपाया भणितेः कोपलक्षणकारणाभावादभ्युपगमरूपानिष्टप्रसङ्गान्मि थ्याप्रतिपत्तिविषयत्वेन वैयर्थ्याच्च । सामान्यद्वारेणेति । 'सुहअ विळम्बसु' इत्यादौ भणिस्सं इति भणनमात्रमुक्तं, नतु प्रकारविशेषविशिष्टम् । तत्र सामान्योक्तिसहायेन किं भणिमो इति निषेधेन त्वद्विरहो ममात्यन्तदुर्विषह इत्यादिर्मरणशङ्कावहः प्रकारविशेष आक्षिप्यते । अंशोक्तावित्यादि । अद्य शिरीषमृद्वी सा नूनमा म्रियेतेत्यस्य सा नूनमा इत्याद्यं शोक्ति
१. 'जीविते' क्र. ख. पाठः.
-