________________
বিল] सव्याख्यालङ्कारसर्वस्वोपेतम् ।
१२७ लक्षणभेदः । विशेषस्य चात्र शब्दानुपात्तत्वाद् गम्यत्वम् । तत्रोक्तविषये आक्षेपे क्वचिद् वस्तु निषिध्यते कचिद् वस्तुकथनं निषिध्यत इति हौ भेदौ । वक्ष्यमाणविषये तु कथनमेव निषिध्यते । तच्च सामान्यप्रतिज्ञायां वापि विशेषनिष्ठत्वेन कचित् पुनरंशोक्तावंशान्तरगतत्वेनेत्यत्रापि द्वौ भेदौ । तदेवमस्य चत्वारो भेदाः । शब्दसाम्यनिबन्ध- सामान्यविशेषभावमवलम्ब्य चात्र प्रकारप्रकारिभावपरिकल्पनम् । क्रमेण यथा"बाळअ णाहं दूई तीए पिओ सि त्ति णमवावारो।
सा मरइ तुज्झ अयसो एअं धम्मक्खरं भाणमा ॥" "प्रसीदेति ब्रूयामिदमसति कोपे न घटते
करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः। न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा
___किमेतस्मिन् वक्तुं क्षममिति न वेद्मि प्रियतमे!॥" त्वम् । तदाह-वक्ष्य म णेति । तेनान लक्षणभेद इति । अत्रानयोः प्रकारयोः क्वचित् प्रतिपिपादयिषितविशेषाश्रयस्य निविध्यमानत्वं , क्वचित् तत्सम्बन्धिनस्त्वन्यस्यति लक्षणभेदः । तदेवमस्येति । नन्वर्थभेदादन्य उक्तविषय आक्षेपः । वक्ष्यमाणस्य विषयोऽप्यन्य इति स्थितम् । तत् कथं चतुष्प्रकारतेत्यत आह - शब्दसाम्येति । सत्यप्यर्थभेदादाक्षेपस्य भेदे स्वरूपसाम्यादकत्वेनावभासमानः सामान्यरूप आक्षेपः प्रकारी । उक्तविषयादयः प्रकारा इत्युपचारेण कथनमित्यर्थः । बाळअ इत्यादि । .
बालक! नाहं दूतो तस्याः प्रियोऽसीते नास्मद्वयापारः। सा म्रियते तवायश एतद्धर्माक्षरं भणामः ॥ १. 'नमिति । व' क. ख. पार: २ 'न शब्दे पा' क. पाट:. ३. 'बा' क. ख, पाठः.