________________
१२६
अलङ्कारसूत्रं
[भक्षेप
तथाविधस्य विधानार्हस्य निषेधः कर्तुं न युज्यते । स कृतोऽपि बाधितस्वरूपत्वान्निषेधायत इति निषेधाभासः सम्पन्नः । तस्यैतस्य करणं प्रकृतगतत्वेन विशेषप्रतिपत्त्यर्थम् । अन्यथा गजनानतुल्यं स्यात् । स चाभासमानो निषेध उक्तस्य वा स्यादासूत्रिताभिधेयत्वेन वक्ष्यमाणस्य वा स्यादित्याक्षेपस्य द्वयी गतिः । उक्तविषयत्वेन कैमर्थक्यपरमालोचनमाक्षेपः । वक्ष्यमाणविषयत्वेनानयनरूपमागूरणमाक्षेपः । एवञ्च अर्थभेदादाक्षेपशब्दस्य द्वावाक्षेपाविति वदन्ति । तत्रोक्तविषये यस्यैवेष्टस्य विशेषस्तस्यैवाक्षेपः । वक्ष्यमाणविषये विष्टस्य विशेषः इष्टसम्बन्धिनोऽन्यस्य सामान्यरूपस्य निषेधः । तेनात्र दिना । निषेधायत इति । निषेधवदाचरति । नतु निषेध एवेत्यर्थः । अन्यथेति । यथा गजस्य स्नानं मदान्धत्वप्रयुक्तेन पुनरपि पांसुप्रक्षेपेण निष्फलैमेव, एवं निषेधोऽप्याभासरूपत्वादस्वप्रतीतिप्रयोजनः सन् उक्तवक्ष्यमाणलक्षणप्रकृतगतत्वेन विशेषस्याप्यप्रत्यायने निष्फल एवेत्यर्थः । ननु यदि निषेधः क्रियते, वक्ष्यमाणस्य वक्ष्यमाणत्वं कथं ज्ञायत इत्यत आह - आसूत्रितेति । सामान्योक्त्यांशोत्त्या वा वक्ष्यमाणस्याप्याधेयत्वस्य सूचनाददोष इत्यर्थः । कैमर्थक्यपरमित्यादि । यथा 'आक्षेप उपमानस्येत्यादौ | आनयनरूपमित्यनेनागूरणशब्दस्यार्थः कथ्यते । यथा 'श्रुत्यर्थाभ्यामथाक्षिप्त' इत्यत्राक्षिप्तशब्दस्यार्थानीतोऽर्थः एवं वक्ष्यमाणवि - षयेऽप्याक्षेपशब्दस्यानयनमर्थ इत्यर्थः । एवञ्चेत्यादिना लक्ष्यवाचिन आक्षेपशब्दस्य प्रकारद्वये निरुक्तिभेदेन भेद दर्शयित्वा लक्षणभेदमपि दर्शयेतुमाह - तत्रोक्तविषय इत्यादिना । यस्यैवेष्टस्य विशेष इति । प्रतिपिपादयिषित इति शेषः । एवमिष्टस्य विशेष इत्यत्रापि व्याख्येयम् । यस्यैवेत्येवकारेण गम्यस्य विशेवस्य गमकस्याक्षेपस्य चैंकाश्रयत्वं द्योतयन् वक्ष्यमाणाक्षेपादुक्ताक्षेपस्य भेदं दर्शयति । तत्र हि तयोर्भिन्नाश्रय१. 'णे वि', २. 'लम्, ए' क. ख. पाठः.
"