________________
निरूपणम् ]
सन्याख्यालङ्कारसर्वस्वोपेतम् ।
“किं वृत्तान्तैः परगृहगतैः किन्तु नाहं समर्थ - स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठयामुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्त्तिः ॥" इत्यत्र प्रक्रान्तापि स्तुतिपर्यवसायिनी निन्दा हन्त कीर्त्तिरित्यनेन भणितिप्रकारेणेोन्मूलितेव न प्ररोहं गमितेति क्लिष्टमेतदुदाहरणम् ॥
गम्यत्वमेव प्रकृतं विशेषविषयत्वेनोररीकृत्याक्षेपालङ्कार उच्यते
-
१२५
उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतिपत्यर्थं निषेधाभास आक्षेपः ॥ ३८ ॥
इह प्राकरणिकोऽर्थः प्राकरणिकत्वादेव वक्तुमिष्यते । बौधिता निन्दा बाध्यते | उन्मूलितेवेत्यादि । हन्तशब्दस्य विषादद्योत - कत्वान्निन्दापर्यवसायित्वस्यैव प्ररोहः, न स्तुतिपर्यवसायित्वस्यं । अथवा हन्तशब्दस्य हर्षप्रतिपादकतयोपक्रम एव निन्दाया उन्मूलितत्वेन प्रतीतेर्न तन्मुखेन स्तुतेरभिव्यक्तिः । अतः क्लिष्टतेत्यर्थः । एतत्प्रतिपादनार्थमेवोदाहरणान्तरोपन्यासः ।।
1
विशेषविषयत्वेनोररी कृत्येति । विशेषस्य गम्यत्वमङ्गीकृत्य । उक्तवक्ष्यमाणयोरित्यादि । विशेषप्रतिपत्त्यर्थं प्राकरणिकनिषेधाभास आक्षेप इति सामान्यलक्षणम् । उक्तवक्ष्यमाणयेोरिति प्रकारनिर्देशः । निषेध्यनिष्ठविशेषप्रतीतिप्रयोजनो बाध्यत्वेनोभासरूप उक्तवक्ष्यमाणयोर्निषेधाभास आक्षेप इति सूत्रार्थः । सूत्रे प्राकरणिकयोरिति विशेषणं निषेधस्याभासताप्रतिपादन हेतुत्वेनोक्तमित्याह - इह प्राकरणिकोऽर्थ इत्या
१. 'ति भ' ख. ग, पाठः. २. 'योम्मू' क. पाठ:. ३. 'बा', ४. 'तिनिन्दाप', ५. 'नावभा' ख. पाठः.