________________
अलङ्कारसूत्रं
[व्याजस्तुतिकृत्वा । स्तुतिनिन्दारूपस्य विच्छित्तिविशेषस्य भावादप्रस्तुतप्रशंसातो भेदः । क्रमेण यथा"हे हेलाजितबोधिसत्त्व! वचसां किं विस्तरैस्तोयधे!
नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । · तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो
भारप्रोढहने करोषि कृपया साहायकं यन्मरोः ॥" अत्र विपरीतलक्षणया वाच्यवैपरीत्यप्रतीतिः । "इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारि
दिङ्नागानां मदजलमषीभाञ्जि गण्डस्थलानि । अंद्याप्युवींवलयतिलक ! श्यामलिम्नानुलिप्ता
न्युद्भासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥” अत्र धवलताहेतुयशोविषयानवक्लुप्तिप्रतिपादनेन 'विशेषप्रतिषेधे शेषाभ्यनुज्ञानम्' इति न्यायात् कतिपयपदार्थवर्ज समस्तवस्तुधवलताकारित्वं नृपयशसः प्रतीयते । स्तुतिनिन्दारूपस्येति । विपरीतलक्षणयेति । हे हेलाजितेत्यादिभिः परमकारुणिकत्वप्रतिपादकैः पदैर्वाच्यविपरीतनृशंसत्वादि लक्ष्यते । अत्र धवलवेत्यादि । धवलताहेतुना यशसा विषयाणां धवलीकर्तव्यानामनवक्लप्तिरव्याप्तिः, तत्प्रतिपादनमुखेन । अव्याप्तिश्चेन्दुलक्ष्मादीनां श्यामलिग्नानुलिप्तत्वेनावगताँदधवलीकरणात् प्रतीयते । विशेषप्रतिषेध इत्यादिना निन्दायाः स्तुतिपर्यवसायित्वं दर्शयति । कतिपयपदार्थवर्जमिति । एतच्छलोकनिर्दिष्टेन्दुलक्ष्मादिवर्जम् । पूर्वत्रोदाहरणे वैरस्यदिनुपभोग्यत्वेन परानुपकारित्वस्य प्रत्यक्षतः सिद्धेः परहिताधाने गृहीतव्रत इत्यादिस्तुतेर्बाधः । उत्तरत्र सर्वपदार्थधवलीकारगोचरेण प्रत्यक्षेण धवलितं किमित्यादिना
१. 'राजन्नद्याप्युदय', २. 'शोन' क. खं. पाठः, ३. 'तत्वाद', ४. 'ण' ख. ग. पाठः. ५. 'स्यानु' क. पाटा.