________________
निरूपणम्] सव्याख्यालङ्कारसर्वस्योपेतम् ।
१२३ अत एवाप्रस्तुतप्रशंसातो भेदः । एतच्च वितत्याप्रस्तुतप्रशंसाप्रस्तावे निर्णीतमिति तत एवावधार्यम् । उदाहरणं -
"स्पृष्टास्ता नन्दने शच्याः केशसम्भोगलालिताः ।
सावलं पारिजातस्य मञ्जर्यो यस्य सैनिकैः॥" अत्र हयग्रीवस्य कार्यमुखेन स्वर्गविजयो वर्णितः । प्रभावातिशयप्रतिपादनं च कारणादिव कार्यादपि भवतीति कार्यमपि वर्णनीयमेवेति पर्यायोक्तस्यायं विषयः ॥
गम्यत्वविच्छित्तिप्रस्तावाद् व्याजस्तुतिमाह -
स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः ॥ ३७॥
यत्र स्तुतिरभिधीयमानापि प्रमाणान्तरेण बाधितस्वरूपो निन्दायां पर्यवस्यति, तत्रासत्यत्वाद् व्याजरूपा स्तुतिरित्यर्थानुगमेन तावदेका व्याजस्तुतिः। यत्रापि निन्दा शब्देन प्रतिपाद्यमाना पूर्ववद् बाधितस्वरूपा स्तुतिपर्यवसिता भवति, सा द्वितीया व्याजस्तुतिः, व्याजेन निन्दारूपेण स्तुतिरिति तत्रेत्यादि । पर्यायोक्तविषये । एतचेति । पर्यायोक्ताप्रस्तुतप्रशंसयोर्भेदक गमकस्य कार्यादेः प्रस्तुतत्वापरतुतत्वाभ्यां वर्णनार्हत्वानहत्वम् । कार्यमु. खेनेति । सैनिककर्तृकसावज्ञपारिजातमञ्जरीस्पर्शनलक्षणस्य कार्यस्य स्वर्गविजयलक्षणकारणमन्तरेणानुपपत्तेः । अप्रस्तुतप्रशंसोदाहरणाद् ‘इन्दुलिप्त इवे'त्यादेरस्योदाहरणस्य वैधयं दशर्यति --प्रभावातिशयेत्यादिना ॥
प्रमाणान्तरेणेति । प्रत्यक्षादिना । असत्यत्वादिति । स्तुतेरिति शेषः । पूर्ववदिति । प्रमाणान्तरेण । नन्वत्र स्तुतिनिन्दयोः प्रस्तुतयोरप्रस्तुतनिन्दास्तुत्यभिधानादप्रस्तुतप्रशंसात्वं किं न रयादित्यत आह
१. 'रबा', २. 'तरू', ३. 'पायां नि', ४. 'मुखेन स्तु' क, ख, पाठ:: ५. कसा' ख. ग. पाठः