SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसूत्र [पर्यायाने एवमप्रस्तुतप्रशंसानुषङ्गायातमर्थान्तरन्यासमुक्त्वा गम्यप्रस्तावागतं पर्यायोक्तमुच्यते गम्यस्यापि भङ्गयन्तरेणाभिधानं पर्यायोक्तम् ॥३६॥ ___ अत्र यदेव गम्यते, तस्यैवाभिधानं पर्यायोक्तम् । गम्यस्यैव सतः कथमभिधानमिति चेद् , न । गम्यापेक्षया प्रकारान्तरेणाभिधानस्य सम्भवात् । नहि तस्यैव तदैव तयैव विच्छित्त्या गम्यत्वं वाच्यत्वं च सम्भवति । अतः कार्यादि. द्वारेणाभिधानम् । कार्यदेरपि तत्र प्रस्तुतत्वेन वर्णनाहत्वात् । यथा भूमौ त एव निवसन्ति सुखं भजन्तो ये सन्नतास्त्रिविधवीररसाश्रयं त्वाम् । सङ्क्रामधीर! भुवनान्तर एव वृत्तिः स्पर्धावतस्त्वयि खेलु त्रिदश[मस्य ॥ अत्र वर्णनीयविषयसन्नतिजुषां भूमौ सुखनिवासलक्षणस्य सामान्यस्य तद्विरुद्धस्य स्पर्धाभाजः सुरशाखिनो लोकान्तरे वृत्तिविशेषरूपा वैवर्म्यष समर्थिका। प्रणिपतत निर्विशङ्कं भूपा ! रविवर्मणः पदाम्भोजे । - अवरोपयति हि राज्यादवलिप्तानेष रोषताम्राक्षः ॥ अंत्र प्रणिपातप्रवर्तकत्वे तत्कारणभूतराज्यस्थापनविरुद्धं वर्णनीयकर्तृकं राज्यापहारलक्षणं कारणं वैधम्र्येण निर्दिष्टम् । स्वयमेव बोद्धव्या इति । उदाहृतेष्विति शेवैः । नेह प्रपञ्चिता इति । स्वतन्त्रतयेति शेषः ॥ पर्यायोक्तस्याप्रस्तुतप्रशंसाया अनन्तरं वक्तव्यत्वेऽपि मध्येऽर्थान्तरन्यासलक्षणं प्रासङ्गिकमित्याह -- एवमप्रस्तुतेति । गम्यस्यापीति । भङ्गयन्तरेण प्रकारान्तरेण । अनेन भङ्ग यन्तरग्रहणेन सूत्रे सूचितं गम्यत्वाभिधेयत्वयोरविरोधं चोद्यपूर्वकमुपपादयति - गम्यस्यैवेत्यादिना । १. 'यतस्त्रिद' ख. पाठः. २. 'ण', ३. 'षः ॥ पर्या' ख. ग. पाठः,
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy