________________
निरूपणम् ]
सव्याख्यालङ्कार सर्वस्वोपेतम् ।
१२१
सहसाविधानाभावविरुद्ध विवेककार्य वैधर्म्येण समर्थकम् । "पृथ्वि ! स्थिरीभव भुजङ्गम ! धारयैनां
त्वं कूर्मराज ! तदिदं द्वितयं दधीथाः । दिकुञ्जराः ! कुरत तत्रितये दिधीर्षां देवः करोति हरकार्मुकमाततज्यम् ॥” अत्र हरकार्मुका तंतज्यीकरणं पृथ्वीस्थैर्यादिप्रवर्तकत्वे कारणं समर्थकत्वेनोक्तम् । वैधम्र्येण सामान्यविशेषभावे यथा -
।
"अहो हि मे बहुपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम् । त एव धन्याः सुहृदां पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः ॥" अत्रायुः कर्तृ कापराधाक्षिप्तस्याधन्यत्व स्यायुर्विरुद्धक्षयगतिप्रयुक्तं धन्यत्वं विरुद्धं सामान्यरूपतया समर्थकत्वेनोक्तम् । कार्यकारणताय तु वैधर्म्येणोदाहृतम् । हिशब्दाभिहितत्वादिभेदाः स्वयमेव बोद्धव्याः । चारुत्वातिशयाभावान्नेह प्रपञ्चिताः ॥
मिति । संपद्वरणविरुद्धम् । वैधम्र्मेणेति । विरुद्धकारणजन्यत्वात् । प्रवर्तकत्व इति । पृथ्वि ! स्थिरी भवेत्यादिवचनस्य प्रवर्तनारूपत्वात् । आयुःकर्तृकेति । अजीवद्भिरप्रियं वक्तुमशक्यमित्यायुष एवाप्रियवचने प्रयोजकत्वमिति तस्यापराधकर्तृत्वम् । अत्र समर्थनीयो विशेषो न निर्दिष्ट इति शङ्का न कार्येत्याह - आक्षित स्येति । आयुषोऽपराधश्चाधन्यत्वापादनमेवेत्यर्थः । विरुद्धमिति । धन्यत्वाधन्यत्वयोर्विरुद्वस्त्ररूपत्वाद् विरुद्वप्रयोजकत्वाच्च । उदाहृतमिति । 'अविवेकः परमापदां पदमिति । एवं सामान्यस्य कार्यस्य च वैधर्म्येण समर्थकत्वमुदाहृतम् । विशेषस्य कारणस्य च क्रमेण
१. 'मिमं द्वि', ५. 'यां वै', ३. 'वातु नेह' क. ख. पाठा' ४. 'दर्शिताः ' मूलपाठः . ५. 'पनि', ६. 'ता' ख. पाठः.
R