________________
अलङ्कारसूत्र
१२०
[ अथान्तरन्यास
समर्थक पूर्वोपन्यासोत्तरोपन्यासाभ्यां च भेदान्तरसम्भवेऽपि न तद्गणना, सहृदयहृदयहारिणो वैचित्र्यस्याभावात् । तस्माद् भेदाष्टकमेवेहोट्टङ्कितम् । क्रमेण यथा
-
"अनन्तरत्नप्रभवस्य यस्य
हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥”
"लोकोत्तरं चरितमर्पयति प्रतिष्ठां
पुंसां कुलं नहि निमित्तमुदात्ततायाः । वातापितापनमुनेः कलशात् प्रसूति
लीलायितं पुनरमुष्य समुद्रपानम् ॥” " सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥" अत्र सहसाविधानाभावस्य विमृश्यकारित्वरूपस्य सम्पइरणं कार्य साधर्म्येण समर्थकम् । तस्यैवैतत्कार्यविरुद्धमापत्पदत्वं मेव विवक्ष्यते, न तु समर्यसमर्थक भावः । द्दिशब्दाभिधानेत्यादिनोद्धटोक्तं भेदप्रकारं दूषयति । उट्टङ्कितं निर्णीतम् । अनन्तेत्यादि । अत्र हिमलक्ष - णदोषविशेषस्य रत्नरूपगुणविशेषसमुदायशालिनि सौभाग्यविलोपिभावलक्षणार्थकार्यकरत्वरूपो (?) विशेषो दोषमात्रस्य गुणसन्निपातसद्भावे सति निमज्जनलक्षणेनाकिञ्चित्करत्वेन सामान्यरूपेण समर्थ्यते । सहसा विदधीतेत्यकमेव कारणं प्रति किन्चित कार्य साधर्म्येण समर्थकं किञ्चिद वैधर्म्येणेत्याह – अत्र सहसाविधानेत्यादिना । विमृश्यकारिणमित्यनेन पूर्वानिर्दिष्टसहसाविधानाभावलक्षणं कारणमेवानूद्यत इत्याह- विमृश्यका रित्वरूपस्येति । साधर्म्येणेति । तत्कार्यत्वात् । एतत्कार्यविरुद्ध
१. 'स्यासंभवा' क. ख. पाठः. २. 'पि वा भाविप्रयुक्तभा' ख. पाठ:.