________________
निरूपणम्] सव्याख्यालकारसर्वस्वोपेतम्।
११९ भवति, तदार्थान्तरन्यासाविर्भावः । सरूपयोस्तु वाच्यत्वे दृष्टान्तः । अप्रस्तुतस्य वाच्यत्वे प्रस्तुतस्य गम्यत्वे सर्वत्राप्रस्तुतप्रशंसेति निर्णयः॥
उक्तन्यायेन प्राप्तावसरमर्थान्तरन्यासमाह -
सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टप्रकतसमर्थनमर्थान्तरन्यासः ॥ ३५॥
निर्दिष्टस्याभिहितस्य समर्थनार्हस्य प्रकृतस्य समर्थकात् पूर्व पश्चाद् वा निर्दिष्टस्य यत् समर्थनमुपपादनं, न त्वपूर्वत्वेन प्रतीतिः। अतो नानुमानरूपोऽसावर्थान्तरन्यासः। तत्र सामान्यं विशेषस्य, विशेषो वा सामान्यस्य समर्थक इति द्वौ भेदौ । तथा कार्य कारणस्य, कारणं वा कार्यस्य समर्थकमिति द्वौ भेदौ । तत्र भेदचतुष्टये प्रत्येकं साधर्म्यवैधाभ्यां भेदद्वयेऽष्टौ भेदाः। हिशब्दाभिधानानभिधानाभ्यां तत्र सामान्यविशेषभावादिसम्बन्धनिबन्धनत्वेन साम्यम् , अन्यतरोभयवाच्यत्वाभ्यां वैषम्यम् ॥
- यदर्थमयं विषयविभागः कृतः, तदाह - उक्तन्यायेनेत्यादि । सामान्येति । निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यास इति सामान्यलक्षणम् । सामान्यविशेषेति भेदनिर्देशः । तत्र निर्दिष्टग्रहणेनाप्रस्तुतप्रशंसाव्यावृत्तिः । तस्यां हि 'तण्णत्थी' त्यादौ सर्वस्य कालवशंवदत्वेन प्रहस्तकालवशंवदत्वं समर्थ्यते । तथाच भद्देन्दुराजेन 'प्रीणितप्रणयी'त्यादावप्रस्तुतप्रशंसोदाहरणे समर्थ्यसमर्थकभावस्य विद्यमानत्वात् तद्व्यावृत्त्यर्थं भट्टोद्भटग्रन्थे प्रकृतार्थसमर्थनमित्यत्र प्रकृतशब्दः स्वशब्दोपात्तप्रकृतार्थनिष्ठो द्रष्टव्य इति व्याख्यातम् । दृष्टान्तव्यवच्छेदाय सूत्रे स्वकण्ठेनानुपात्तमपि समर्थनपदसामर्थ्यलब्धं विशेषणं दर्शयति - समर्थनार्हस्येति । दृष्टान्ते हि बिम्बप्रतिबिम्बत्व
१. 'स्यासमर्थनात् पू, २. 'पोऽर्था', ३. 'त्यपि द्वौ' क. ख. पाठः. ४. 'भ' ख. पाठः,