________________
११८
अलङ्कारसूत्रं [अप्रस्तुतमशंसातोऽर्थः प्रतीयते । वाच्यसम्भव उक्तान्येवोदाहरणानि । असम्भवे यथा"कस्त्वं भोः! कथयामि दैवहतकं मां विद्धि शाकोटकं
निर्वेदादिव वक्षि साधु विदितं कस्मादिदं कथ्यते । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते ..
नच्छायापि परोपकारकरणी मार्गस्थितस्यापि मे ॥" अत्राचेतनेन सह प्रश्नोत्तरिकानुपपन्नेति वाच्यस्यासम्भव एव । प्रस्तुतं प्रति तात्पर्यात प्रमुख एव तदध्यारोपेप्रतीतेयुज्यत एवैतत् । उभयरूपत्वे यथा__“अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः।
कथं कमलनालस्य मा भूवन् भङ्गुरा गुणाः॥" अत्र वाच्येऽर्थे कण्टकानां गुणभङ्गुरीकरणे हेतुत्वमसम्भवि, छिद्राणां तु सम्भवि इत्युभयरूपत्वम् । प्रस्तुततात्पर्येण प्रतीतेस्तदध्यारोपात् सङ्गतमेवैतदिति नासमीचीनं किञ्चित् । एतदेव च श्लेषगर्भायामस्यामुदाहरणम् । तदत्र सामान्यविशेषत्वेन कार्यकारणत्वेन सारूप्येण च यद् भेदपञ्चकमुद्दिष्टं, तत्र द्वयोः सामान्यविशेषयोः कार्यकारणयोश्च यदा वाच्यत्वं तदभावप्रयुक्तयोर्धन्यत्वाधन्यत्वयोर्मिथो विरुद्धत्वात् । उक्तानीति भ्रष्टवाददृष्टानि श्लेषादिमन्ति निर्दिश्यन्ते । असम्भविनोऽपि वाच्यस्य कथमाभिधानमित्यत आह - प्रस्तुतं प्रतीति । सम्भवत्प्रश्नोत्तरिकप्रस्तुताध्यारोपेण । श्लेषगर्भायामिति । छिद्रकण्टकगुणशब्दानामुभयार्थत्वेन लित्वम् । अनन्तरमर्थान्तरन्यासस्य लक्षणार्थमप्रस्तुतप्रशंसया सह तस्य प्रसगाद् दृष्टान्तस्य चांशेन साम्यमंशेन वैषम्यं च दर्शयति-तत्रेत्यादिना ।
१. 'च्यस्य सं' क. पाठः, २. 'वैराग्यादि', ३. 'पेण प्र' ग. पाठी