________________
निरूपणम् ]
सब्याख्यालङ्कारसर्वस्वोपेतम् ।
आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ॥”
1
इत्यादौ सुप्रसिद्धे पर्यायोक्तविषयेऽप्यप्रस्तुतप्रशंसाप्रसङ्गः । अत्र हि गजासुरवधूगतेन लम्बालकत्वादिना कार्येण कारणभूतो गजासुरवधः प्रतीयते । तथा राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेदः कारणरूपोऽवगम्यते । एवमन्यत्रापि पर्यायोक्तविषये ज्ञेयम् । तस्मादप्रस्तुतप्रशंसाविषयत्वात् पर्यायोक्तस्य निर्विषयेत्वप्रसङ्ग इति । नैष दोषः । उभयत्र कार्यात् कारणं प्रतीयते । कार्यमप्रस्तुतं प्रस्तुतं चेति द्वयी गतिः । यत्र प्रस्तुतत्वं कार्यस्य कारणवत् तस्यापि वर्णनीयत्वात्, तत्र कार्यमुखेन कारणं पर्यायेणोक्तमिति पर्यायोक्तालङ्कारः । तत्र हि कारणापेक्षया कार्यस्यातिशयेन सौन्दयमिति तदेव वर्णितम् । यथोक्तोदाहरणद्वये । अत्र गजासुरवधवद् गजासुरवधूवृत्तान्तोऽपि भगवत्प्रभावजन्यत्वात् प्रस्तुत एव । एवं राहुवधूवृत्तान्तोऽपि ज्ञेयः । ततश्व नायमप्रस्तुतप्रशंसाया विषयः । यत्र पुनः कारणस्य प्रस्तुतत्वे कार्यमप्रस्तुतं वर्ण्यते, तत्र स्पष्टैवाप्रस्तुतप्रशंसा । यथा 'इन्दुर्लिप्त इवेत्यादौ । अत्र हीन्द्रादयः स्फुटमेवाप्राकरणिकाः । तत्प्रतिच्छन्दभूतानां मुखादीनां प्राकरणिकत्वात् । तेनात्रेन्द्रादिगतेनाञ्जनलिप्तत्वादिनाप्रस्तुतेन प्रस्तुतं मुखादि
४
११५
दिना । सुप्रसिद्ध इति । उद्भटादिभिरुदाहृतत्वात् । एवमन्यत्रापीति । 'स्पृष्टास्ता' इत्यादौ | अप्रस्तुतप्रशंसाविषयत्वादिति । उदाहर३. 'ते । तत्र का', ४. 'र्णनीयम् ।', ५. 'येन । 'साव' क. ख. पाठ: ८. 'त' ख, पाठ::
१. 'द', २. 'यंत्र', अ', ६. 'तद्बधू', ७.