________________
११४
अलङ्कारसूत्रं
[प्रस्तुतप्रशंसा
इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥”
२
अत्र तथाधिरूढो मानः कथं निवृत्त इति कार्ये प्रस्तुते निवृत्तिकारणमभिहितम् । कार्यात् कारणप्रतीतौ यथा - "इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव
प्रम्लानारुणिमेव विद्रुमर्देलं श्यामेव हेमप्रभा । कार्कश्यं कलयापि कोकिलवधूकण्ठेष्विव प्रस्तुतं
सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ॥" अत्र सम्भाव्यमानैरिन्द्रादिगतैरञ्जनलिप्तत्वादिभिः कार्यरूपैरप्रस्तुतैर्लोकोत्तरैवदनादिगतः सौन्दर्यविशेषः कारणरूपः प्रस्तुतः प्रतीयते । तेनेयमप्रस्तुतप्रशंसा । ननु कार्यात् कारणे गम्यमानेऽप्रस्तुतप्रशंसायामिष्यमाणायां
"येन लम्बालकः सास्रः कराघातारुणस्तनः । अकारि भग्नवलयो गजासुरवधूजनः ॥” "चकाभिघातप्रसभाज्ञयैव
चकार यो राहुवधूजनस्य ।
पत्रवारिकणविषयमुक्ताभ्रमादप्यन्यज्जात्यं शृण्वित्यर्थः । पश्याम इति । अयं खलु शठः किं मां नालपतीत्यन्वयः । सम्भाव्यमानैरित्यादि । मुखाद्यपेक्षया कान्त्यादिवैधुर्यलक्षणनिमित्तवशादुत्प्रेक्ष्यमाणैः । तेनेयमित्युपसंहारेण कार्यात् कारणप्रतीतिरूपाया अप्रस्तुतप्रशंसायाः पर्यायोक्तविविक्तविषयत्वं सूचयति । अस्यैवोदाहरणस्याप्रस्तुतप्रशंसाविषयत्वं समर्थयितुं पर्यायोक्ताप्रस्तुतप्रशंसयोर्विषयविभागं चोद्यपूर्वकं दर्शयति - नन्वित्या -
१. ' यथाधाराधि', २. 'ढोऽपि मा', ३. 'वर्तित इ' ४. 'लता श्या', 'रो' क. ख. पाठः.