________________
निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम् ।
११३ भिश्च त्रयः प्रकाराः। श्लिष्टशब्दप्रयोगे त्वर्थान्तरस्यावाच्यत्वात् श्लेषाद् विशेषः । श्लेषे ह्यनेकस्यार्थस्य वाच्यत्वमित्युक्तम् । तत्र सामान्याद् विशेषप्रतीतो यथा"तण्णस्थि किंपि पइणो पकप्पिअं जं ण णिअइघरणीए ।
अणवरअगमणसीळस्स काळपहिअस्स पाहिज्जम् ॥” अत्र प्रहस्तवधे विशेष प्रस्तुते सामान्यमभिहितम् । विशेषात् सामान्यप्रतीतो यथा"एतत् तस्य मुखात् कियत् कमलिनीपत्रे कणं वारिणो .. यन्मुक्तामणिरित्यमस्त स जडः शृण्वन्यदस्मादपि । अगुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनै
स्तत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा॥" अत्र जडानामस्थान एवाभिनिवेश इति सामान्ये प्रस्तुते विशेषोऽभिहितः । कारणात् कार्यप्रेतिपत्तौ यथा - "पश्यामः किमियं प्रपद्यत इति स्थैर्य मयालम्बितं
किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः । त्रयं सारूप्य एव । श्लेषेण सर्वालङ्कारापवादकत्वादस्याश्च बाध्यत्वं नाशकनीयमित्याह-श्लिष्टशब्दप्रयोग इति । उक्तमिति । समासोक्त्युपक्रमे । तण्णत्थीत्यादि।
तन्नास्ति किमपि पत्युः (सैं ? प्र)कल्पितं यन्न नियतिगृहिण्या। - अनवरतगमनशीलस्य कालपथिकस्य पाथेयम् ।। पत्युः कालपथिकस्येत्यन्वयः । अत्र प्रहस्तेत्यादि । प्रहस्तस्य कालवशंवदत्वे वक्तव्ये सर्वेषां कालवशंवदत्वमुक्तम् । एतत् तस्येत्यादि । मुखादारम्भतः । तस्येति वक्ष्यमाणो जडः परामृश्यते । स जड इत्यस्य निद्रातीत्यनेनान्वयः । मध्ये वाक्यं शृण्वन्यदस्मादपीति । अस्मात् कमलिनी
१. 'कार्थ', २. 'तातौ य' क, ख. पाठः. ३. 'सं' ख. पाठः.