________________
११२ अलङ्कारसूत्रं
[अप्रस्तुतप्रशंसा. प्रस्तुतादप्रस्तुतावगतौ समासोक्तिरुक्ता । अधुना तद्वैपरीत्येनाप्रस्तुतात प्रस्तुतप्रतीतावप्रस्तुतप्रशंसोच्यते
अप्रस्तुतात् सामान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा ॥ ३४ ॥
- इहाप्रस्तुतस्य वर्णनमेवायुक्तम् , अप्रस्तुतत्वात् । प्रस्तुतपरत्वे तु कदाचित् तद् युक्तं स्यात् । न चाप्रस्तुतादसम्बन्धे प्रस्तुतप्रतीतिः, अतिप्रसङ्गात् । सम्बन्धे तु भवन्ती त्रिविधं सम्बन्धे नातिवर्तते । तस्यैवार्थान्तरप्रतीतिहेतुत्वोपपत्तेः । त्रिविधश्च सम्बन्धः समान्यविशेषभावः कार्यकारण. भावः सारूप्यं चेति । सामान्यविशेषभावे सामान्याद् विशेषस्य विशेषाद् वा सामान्यस्य प्रतीतौ दैतम् । कार्यकारणभावेऽप्यनयैव भङ्गया द्विधात्वम् । सारूप्ये त्वेको भेद इत्यस्याः पञ्च प्रकाराः । तत्रापि सारूप्यहेतुके भेदे साधर्म्यवैधाभ्यां दैविध्यम् । वाच्यस्य सम्भवासम्भवोभयरूपताशब्दस्य समुच्चयार्थत्वेन प्राकरणिकविषयायास्तुल्ययोगिताया विकल्पार्थत्वेन 'भक्तिप्रद्धे'त्यादिवद् विकल्पस्य वा सुवचत्वात् ॥ ___ प्रस्तुतादप्रस्तुत्वगतावित्यादिनाप्रस्तुतप्रशंसायाः सङ्गतिं दर्शयति । मध्ये परिकरश्लेषयोर्लक्षणं समासोक्तिनिमित्तभूतविशेषणसाम्यान्वयेन प्रासङ्गिकम् । अप्रस्तुतेत्यादि । अप्रस्तुतात् प्रस्तुतप्रतीतावप्रस्तुतप्रशंसेति सामान्यलक्षणम् । अनयैव भङ्गयेति । कारणात् कार्यस्य कार्याद् वा कारणस्य प्रतीतौ । सारूप्ये त्वेक इत्यादि । सारूप्यसम्बन्धस्य सामान्यविशेषकार्यकारणभाववत् सम्बन्धिस्वरूपभेदोल्लेखेनाप्रवृत्तरेकभेदत्वमुक्तम्। प्रकारान्तरेण तु भेदमाह-तत्रापीत्यादि । वाच्यस्येत्यादि । प्रस्तुतारोपमन्तरेण घटमानत्वमघटमानत्वं च सम्भवासम्भवौ । इदमपि प्रकार
१. 'न्ती न त्रि', २. 'न्धमति', १. तो भे', ४. 'तादिभि' क. ख. पाठः.