SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ निरूपणम् ] सध्याक्यालङ्कारसवस्वोपेतम् । अपह्नुतेरत्र विद्यमानत्वात् । वस्तुतोऽपह्नवस्य सादृश्यार्थप्रवृत्तेनायमपनुत्यलङ्कार इति चेत् । न । उभयथाप्यपह्नुतेः सम्भवात् । सादृश्यपर्यवसायिना वोपह्नवेन अपह्नवपर्यवसा यिना वा सादृश्येन भूतार्थापह्नवस्योभयथापि विद्यमानत्वात् । "सादृश्यव्यक्तये यत्रापह्नवोऽसावपह्नुतिः । अपह्नवाय सादृश्यं यत्र सैषाप्यपहनुतिः ।। " इति संक्षेप: । आद्या स्वप्रस्ताव एवोदाहृता । द्वितीया तु सम्प्रति प्रदर्शिता । तेनालङ्कारान्तरविविक्तो नास्य विषयो - ऽस्तीति सर्वालङ्कारापवादोऽयमिति स्थितम् ॥ १११ दिना । इदमप्युदाहरणमलङ्कारान्तरस्यैव विषय इत्याह - अपह्नुतेरत्रेत्यादि । वस्तुतोऽपह्नवस्येत्यादि । नात्र प्रियतमचोलकयोः सादृश्यं विवक्षितम् । अनुरागवशादवशतः कीर्तितः प्रियो मुग्धया तत्सधर्मणा चोलकेनापनूयते । उभयथापीत्यादिनोक्तमेवार्थं सुखग्रहणाय श्लोकेन निबनाति - सादृश्यव्यक्तय इति । स्वप्रस्तावे अपह्नुत्यलङ्कार प्रस्तावे | उदाहृतेति । ‘यदेतच्चन्द्रान्त' रित्यादिरूपेण । तेनेत्यादि । न च, देव! त्वमेव पातालमाशानां त्वं निबन्धनम् । त्वं चामरमरुभूमिरेको लोकत्रयात्मकः ॥ ―――― इत्येष श्लेषस्य विविक्तोऽस्ति विषय इति वाच्यम् । अत्रापि वर्णनीयपाताललक्षणद्रव्यविरोधस्य सद्भावात् । नापि, ते गच्छन्ति महापदं भुवि परा भूतिः समुत्पद्यते तेषां तैः समलङ्कृतं निजकुलं तैरेव लब्धा क्षितिः । तेषां द्वारि नदन्ति दन्तिनिवहास्ते भूषिता नित्यशो ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥ इत्यत्र श्लेषस्य विविक्तत्वेनावस्थितिरिति युक्तं वक्तुम् । इहापि रोषतोषलक्षणोपाधिभेदेन द्रष्टुव ताराद्रष्टृदृष्टत्वे (न) दृश्यानां वा भेदे सति वा - १. 'द्धर्मप्र', २. 'वा सादृश्ये भू', ३. 'त्राप्येषा', ४. 'ति: ।' क. ख. पाठः .
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy