SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ११६ अलङ्कारसूत्रं [अप्रस्तुतमा गतं सौन्दर्य सहृदयहृदयाह्लादि गम्यत इत्यप्रस्तुतप्रशंसैवासौ । एवञ्च यत्र वाच्योऽर्थोऽर्थान्तरं तादृशमेव स्वोपस्कारकत्वेनागूरयति, तत्र पर्यायोक्तम् । यत्र पुनः स्वात्मानमेवाप्रस्तुतत्वात् प्रस्तुतमर्थान्तरं प्रति समर्पयति, तत्राप्रस्तुतप्रशंसेति निर्णयः । ततश्चानया प्रक्रियया, "राजन् राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुब्जे ! भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते इत्थं राजशुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा च्चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ॥” इत्यत्र पर्यायोक्तमेवेति बोद्धव्यम् । अन्ये तु दण्डयात्रोद्यतं त्वां बुद्धा त्वदरयः पलाय्य गता इति कारणरूपस्यैवार्थस्य प्रस्तुतत्वात् कार्यरूपोऽर्थोऽप्रस्तुत एव । राजशुकवृत्तान्तश्चाप्रस्तुतत्वात् प्रस्तुतार्थ स्वात्मानमर्पयतीत्यप्रस्तुतप्रशंसैवात्र न्याय्येति वर्णयन्ति । सर्वथा पर्यायोक्ता प्रस्तुतप्रशंसयोर्विषयविभागः सुनिरूपित एवेति स्थितम् । सारूप्ये यथा । णानामिति शेषः । तत्प्रतिच्छन्दभूतानाम् इन्द्राद्युपमेयभूतानाम् । तादृशमेवेति । वाच्यवद् वर्णनीयमेव । ( उ ? स्वो) पस्कारकत्वेन स्वसाधकत्वेन । आगूरयति आक्षिपति । यत्र पुनरिति । वाच्योऽर्थ इत्यनुवर्तते । एतदेव ग्रन्थारम्भे 'स्वसिद्धय' इत्यादिना सूचितम् । ततश्चेति । एवं विविक्तविषयत्वात् । अन्ये त्विति । काव्यप्रकाशकारादयः । तन्मतं दूषयतिसर्वधेति । सुनिरूपित इति । कार्यस्य वर्णनाहीनत्वाभ्याम् । अत्र च शत्रु पलायनवत् तद्भवनगतशुकवृत्तान्तोऽपि वर्णनीय शौर्यातिशय जन्यत्वात् प्रस्तुत एवेति पर्यायोक्तत्वमेव युक्तमिति भावः । सारूप्ये यथेत्यस्यानन्तरम् १. 'व बो' क. ख. पाठ:. २. 'हृीभ्या' ख. पाठः, wywo
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy