________________
[श्लेष
१०८
अहङ्कारसूत्रं
त्प्रेक्षा । अत्रात एवेति परामृष्टो विरोधालङ्कारालङ्कृतोऽर्थो हेतुत्वेनोत्प्रेक्ष्यते, शुद्ध इति च फलत्वेन । ततश्च हेतुफलयोर्द्वयोरप्युत्प्रेक्षा । विरोधालङ्कारस्य च विरुद्धाभासत्वं लक्षणम् । अतो विरोधाभासनसमय एव हेतुफलोत्प्रेक्षोत्थानम् । उत्तरकालं तु विरोधसमाधिः । श्लेषस्यै च सर्वालङ्कारापवादत्वाद विरोधप्रतिभोत्पत्तिहेतुरयं श्लेषः । यत्र तु प्रस्तुताभिधेयपरत्वेऽपि वाक्यस्य श्लिष्टपदमहिम्ना वक्ष्यमाणनिष्ठ - मुपक्षेपापराभिधानं सूचकत्वं तत्र किं श्लेषः, उत शब्दशक्तिमूलो ध्वनिरिति विचार्यते । तत्र न तावच्छ्रेषः । अर्थद्वयस्यानन्वितत्वेनाभिधेयतया वक्तुमनिष्टेः । नापि ध्वनिः ।
1
साधारण ः क्रियायोगः । तद्धेतुका एवंभूतक्रियानिमित्ता । विरोधालङ्कारेति । त्रयीमयत्वेऽपि वारुणीगमनलक्षणः पूर्वं निर्दिष्टः । हेतुत्वेनेति । पतितत्वाग्निप्रवेशलक्षणायाः क्रियायाः । फलत्वेनेति । तस्या एव । एकैवैषा क्रिया हेतूत्प्रेक्षायाः कार्यत्वेन निमित्तं, हेतुत्वेन च फलोत्प्रेक्षायाः । विरोधालङ्कारस्य चेत्यादिना श्लेषस्य विरोधं प्रति बाधकत्वमाह । नन्वेवं पतितत्वाग्निप्रवेशलक्षणक्रियायोग आभासमूलत्वात् कथमुत्प्रेक्षाया निमित्तं स्यादत आह - विरोधाभासनसमय एवेति । उत्तरकालमिति । उत्प्रेक्षोदयोत्तरकालम् । समाधिरिति । वारुणीमित्यत्र दिगर्थव्यतिरिक्तस्यार्थस्याप्ररोहात् । सर्वालङ्कारापवादत्वादिति । अनवकाशत्वेन पूर्वमुपपादितत्वात् । पुनश्च श्लेषस्य सावकाशत्वेन सर्वालङ्कारापवादत्वबाधशवानिवृत्त्यर्थमाह-यत्रेत्यादि । लिष्टपदमहिमा अनेकार्थशब्दमहिनेत्यर्थः । अर्थद्वयस्येत्यादि । द्वयोरप्यर्थयोरभिधागोचरतया प्रतिपादयितुमनि (मेषः ? ष्टेः) । कुत इत्याह--अनन्वितत्वेनेति । पूर्वापरानन्वयात् । एक एव ह्यर्थः पूर्वपराभ्यामन्वयमृच्छति, न द्वितीयोऽपि । श्लेषे तु द्वयोरप्यभिधागोच
-
१ ‘प्यत्रोत्प्रे’, २. ‘स्य वि', ३. 'स्य स', ४. 'दकत्वा', ५. 'त्र प्र', ६. 'णार्थनि' क. ख. पाठः ७ स्याप्ररों', ८. 'दकत्वा', ९. 'रत्व संप्र' ख. पाठः.