________________
निरूपणम् ]
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
शब्दशक्तिमूलध्वनावर्थान्तर
उपक्षेप्यस्यार्थस्य सम्बन्धाभावात् तेन सहोपमानोपमेयभीवस्याविवक्षणात् । न चान्या गतिरस्ति । तदत्र किं कर्तव्यम् । उच्यते । श्लेषस्योक्तनयेनात्राप्रवृत्तेर्ध्वनेरेवायं विषय इति निश्चिनुमः । तथाहि स्यासम्बर्द्धत्वात् सम्बन्धार्थमौपम्यं कल्प्यते । स च सम्बन्धः प्रकारान्तरेणौपम्यपरिहारेण यद्युपपादयितुं शक्यः स्यात्, तत् कोऽभिनिवेशस्तत्रोपमाध्वनौ । वस्तुध्वनिरपि सम्बन्धान्तरेण तत्र समीचीनः स्यात् । अत एव
-
पाठः.
"अलङ्कारोऽथ वस्त्वेव शब्दाद् यत्रावभासते । प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ॥”
१०९
४
इति न्यायभर निबन्धेन द्विधा शब्दशक्त्युद्भव उक्तः । एवं प्रकृतेऽपि यत्र सूचनाव्यापारोऽस्ति तत्र शब्दशक्तिमूलो वस्तुध्वनिर्वोद्धव्यः । यथा -
"
“सद्यः कौशिकदिग्विजृम्भणवशादाकाशराष्ट्रं जवत् त्यक्त्वा धूसर कान्तिवल्कलधरो राजास्त शैलं ययौ । तत्कान्ताप्यथ सान्त्वयन्त्यलिकुलध्वानैः समुल्लासिभिः
कन्दन्तं कुमुदाकरं सुतमिव क्षिप्रं प्रतस्थे निशा ॥” रत्वम् । सम्बन्धाभावः कुत इत्याह- तेन सहेति । तेनोपक्षेप्येण । उक्तन येन अर्थद्वयस्येत्यायुक्तन्यायेन । प्रकारान्तरेण औपम्यव्यतिरिक्तेन । वस्तुध्वनिरपीति । निरलङ्कारवस्तुमात्रध्वनिरपीत्यर्थः । शब्दशक्तिध्वनावौपम्यकल्पनस्य न नियम इत्यत्र काव्यप्रकाशकारवचनं संवादकत्वेनाह--अलङ्कारोऽथेत्यादि । वस्त्वेवेत्येवकारेण सालङ्कारत्वं व्यवच्छिद्यते । प्रधानत्वेनेति गुणीभूतव्यङ्गयनिरासार्थम् । द्विधेति । वस्तुध्वनिरलङ्कारध्वनिश्च ।
१. 'परत्वस्या', २. 'न्धि', ३. 'तो ब', ४. 'त्युक्तम् । ए', ५. 'या' क. ख.