________________
निरूपणम् ]
सव्याख्यालङ्कार सर्वस्वोपेतम् ।
१०७
तु रूपके रूपक हेतुकस्य श्लेषस्य तृतीयकक्ष्यायां रूपक एव विश्रान्तिरिति रूपकेण श्लेषो बाध्यते । श्लिष्टविशेषणनिबन्धनायां च समासोक्तौ विशेष्यस्यैव गम्यत्वात् श्लेषबाधिका समासोक्तिः । इह तु —
" त्रयीमयोऽपि प्रथितो जगत्सु यारुणीं प्रत्यगमद् विवखान् । मन्येऽस्तशैलात् पतितोऽत एव विवेश शुद्ध्यै बडवाग्निमध्यम् ॥” अत्र श्लोके विवस्वतो वस्तुवृत्तै सम्भव्यधः प्रदेश संयोगलक्षणं यत् पतितत्वं, यश्च बडवग्निमध्यप्रवेशः, ते द्वे अपि त्रयीमयसम्बन्धिवारुणीगमनरूपविरुद्धाचरणहेतुकाभ्यां पतितत्वाभिप्रवेशाभ्यामतिशयोक्त्या श्लेषमूलयाभेदेनाध्यवसीयेते । सौऽयमेकक्रियायोगः । तद्धेतुका च मन्येऽत एवं शुद्धयै इत्युप्राप्ते कचिदपवादमाह श्लेषगर्भे त्वित्यादि । यथा 'विद्वन्मानस - हंसेत्यादौ त्वमेव हंस इति प्रथमं रूपकस्य प्रतीतिः । पश्चात् तद्धेतुका मानसशब्दे श्लेषस्य । ततो मानसमेव मानसमिति रूपकस्य । अतो रूपकमेव विश्रान्तिधामत्वात् प्रबलम् । श्लिष्टविशेषणेत्यादि । उपोढरागेणेत्यादौ । विशेष्यस्यैवेति । अप्रस्तुतस्येति शेषः । समासोक्त - विशेष्यस्य गम्यत्व एव संरम्भात् तदवगतिनिमित्तत्वादङ्गभूतो विशेषणविषये श्लेष इति समासोक्तेरेव प्राधान्यम् । इह त्वित्यादिना श्लेषस्य कस्यचिदलङ्कारान्तरस्याङ्गभावं कस्यचिद् बाधकत्वं च दर्शयति । तत्र विवस्वतो वस्तुवृत्तेत्यादिना श्लेषस्योत्प्रेक्षां प्रत्यङ्गत्वं दर्शयति । सोऽयमित्यादि । अतिशयोक्त्या भेदेनाध्यवसितः पतितत्वाभिप्रवेशलक्षणः
१. 'स्य ग', २. 'इति श्लो', ३. 'त्ति', ४. 'वाम', ५. 'सिते', ६. 'यो', ७. 'व विवेश शु' क. ख. पाठः. ८. 'तिस्तद्धे' ख. पाठः,