SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १०६ अलङ्कारसूत्रं [श्लेष 9 1 ६ दीपकं प्रभवतीति तावदलङ्कारद्वयं श्लेषविषयं व्याप्यावतिष्ठते । तन्निष्ठेत्वेनॅ चालङ्कारान्तराणामुत्थानमिति नास्य विवितोऽस्ति विषयः । अत एवं चालङ्कारान्तराणां बाधितत्वेन प्रतिभामात्रेणावस्थानम् । 'येन ध्वस्तमनोभवेत्यादौ च प्राकरणिकत्वादर्थद्वयस्य तुल्ययोगितायाः प्रतिभानम् । एवञ्च "सकलकलं पुरमेतज्जातं सम्प्रति सुधांशुविम्बमिव " इत्यादौ न गुणक्रियासाम्यवच्छन्दसाम्यमुपमाप्रयोजकम् अपितु, उपमाप्रतिभोत्पत्तिहेतुः श्लेष एवावसेयः । श्लेषगर्भे अलङ्कारान्तराणामुपमादीनाम् । एवश्चेति । श्लेषस्यालङ्कारान्तरप्रतिभोत्पत्तिहेतुत्वे सतीत्यर्थः । सकलकलं कलकलसहितं सम्पूर्णकलं च । अयमर्थःअर्थालङ्कारभूतायाँ उपमाया गुणक्रियारूपार्थसाम्य एव सम्भवः, न तु शब्दसाम्य इति तस्या बाध एव युक्त इत्यर्थः । एवमुद्भटमतानुसारेण श्लेषस्य शब्दार्थविषयत्वमलङ्कारान्तरप्रतिभोत्पत्तिहेतुत्वं च दर्शितम् । एवं युद्भटेन श्लेषो लक्षितः - “एकप्रयत्नोच्चार्याणां तच्छायां चैव बिभ्रताम् । स्वरितादिगुणैः लिष्टैर्बन्धः लिष्टमिहोच्यते ॥ अलङ्कारान्तरगतां प्रतिभां जनयन् पदैः । द्विविधैरर्थशब्दोक्तिविशिष्टं तत् प्रतीयताम् ॥” - " अस्यार्थः – अर्थभेदेन तावच्छब्दा भिद्यन्ते । भिद्यमानाश्च शब्दाः केचित् स्वरप्रयत्नसाम्यात् तन्त्रेण प्रयोक्तुं शक्याः केचित् तद्भेदान्न शक्याः । तत्रैकप्रयत्नोच्चार्याणां बन्धः अर्थोक्तिविशिष्टं श्लिष्टं प्रतीयताम् । अर्थश्लेष इत्यर्थः । इतरेषां तच्छायामेकप्रयत्त्रोच्चार्यसादृश्यं बिभ्रतां भिन्नैः स्वरितादिगुणैरुपलक्षितानां बन्धः शब्दोक्तिविशिष्टं ष्टिं प्रतीयताम् । शब्दश्लेष इति यावत् । द्विविधमप्येतदलङ्कारान्तराणां प्रतिभामात्रं जनयति । न तु तेषां तत्र स्वतन्त्रतयावस्थानमित्यर्थः । एवं सर्वत्रालङ्कारान्तरबाधकत्वे १. ‘कं भ’, २. ‘ये’, ३. 'ष्ठितत्वे', ४. 'नाल', ५. 'वाल', ६. 'वात् प्र' क. ख. पाठः. ७. 'या गु' ख. पाठः. -
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy