________________
निरूपणमें ] सव्याख्यालङ्कारसर्वस्वोपेतम्। त्रिविधः । तत्रोदात्तादिस्वरभेदात् प्रयत्नभेदाच शब्दान्यत्वे शब्दश्लेषः, यत्र प्रायेण पदभङ्गो भवति । अर्थश्लेषस्तु यत्रं खरादिभेदो नास्ति । अत एव न तत्र सभङ्गपदत्वम् । सङ्कलनया तूभयश्लेषः । यथा
"रक्तच्छदत्वं विकचा वहन्तो . नालं जलैः सङ्गतमादधानाः । निरस्य पुष्पेषु रुचिं समयां |
पद्मा विरेजुः श्रमणा यथैव ॥" अत्र रक्तच्छदत्वमित्यादावर्थश्लेषः । नालमित्यादौ शब्दश्लेषः। उभयघटनौयामुभयश्लेषः । ग्रन्थगौरवभयात् तु पृथङ् नोदाहृतम् । अलङ्कार्यालङ्कारभावस्य च लोकवदेवाश्रयाश्रयिचेत्यादि । उदात्तादीत्यादिशब्देनानुदात्तस्वरितौ गृह्यते । प्रयत्नभेदाद् गौरवलाघवरूपात् । यत्र प्रायेणेति । प्रायेणेत्यनेन यत्र समासभेदेनान्यर्थी वा स्वरभेदो भवति, तत्र 'मुक्ताश्रीरि'त्यादौ 'अपारिजातवार्तापी'त्यादौ चैकपद्येऽपि शब्दश्लेषत्वमिति दर्शयति । तथाहि-मुक्ताश्रीरित्यत्र परित्यक्ता शोभेत्यस्मिन्नर्थे बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरत्वम् । मुक्तायाः श्रीरिति षष्ठीतत्पुरुषत्वे समासान्तोदात्तत्वम् । अपारिजातवार्तेत्यत्रापगता अरिजातवार्तेति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अविद्यमानपारिजातवातेति बहुव्रीहौ 'नसुभ्याम्' (६. २. १७२) इत्यन्तोदात्तत्वमिति स्वरभेदः । स्वरादीत्यादिशब्देन प्रयत्नो गृह्यते । सङ्कलनया शब्दार्थश्लेषयोः संसर्गात् । रक्तच्छदत्वं रक्तपत्रत्वं रक्तवासस्त्वं च । विकचा विकसिताः विकेशाश्च । नालं. मृणालं न अलं च । श्रमणपक्षे जलैः संगतं सङ्गम् अलं पर्याप्त नादधाना इत्यन्वयः । पुष्पेषु रुचिम् इतरपुष्पनिष्ठां शोभां कामरुचिं च । रक्तच्छदत्वमित्यादावित्यादिशब्देन विकचा इत्येतद् गृह्यते । रक्तच्छदत्वमि
१. 'च शब्दाच श', २. 'त्र प्रायेण स्व', ३. 'नया तूभ', ४. 'यात् ', ५. 'स्य लो' क. ख. पाठः, ६, 'वात्', ७. 'था ख', ८. 'र्थसंश्छे' ख• पाठः.