________________
१०२
अलङ्कारसूत्र
यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः पायात् स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥" "नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः । सदृशे वनवृद्धानां कमलानां तदीक्षणे ॥" "खेच्छोपजातविषयोऽपि न याति वक्तुं
देहीति मार्गणशतैश्च ददाति दुःखम् । मोहात् समाक्षिपति जीवितमप्यकाण्डे
कष्टो मनोभव इवेश्वर दुर्विदग्धः || ” अत्रे हरिहरयोः प्राकरणिकत्वम् । पैद्मानां मृगाणां चोपमानत्वादप्राकरणिकत्वम् । ईश्वरमनोभवयोः प्राकरणिकाप्राकरणिकत्वम् । एष च शब्दार्थोभयगतत्वेन वर्तमानत्वात विशेष्यस्यापि साम्ये ध्वनित्वापत्तिरेतदा परामृश्यते । अवशिष्टेत्याद्यं प्रकारद्वयमुच्यते । येनेत्यादि । ध्वस्तमनोभवेन बलिजितो विष्णोः कायः पुरा त्रिपुरदाहेऽस्त्रीकृतः । अभवेन येन अनो ध्वस्तं शकटासुरो भग्नः । बलिजित्त्वेन महत्त्वं लक्ष्यते । महान् कायः स्त्रीकृतोऽमृतप्रदानसमये । उद्वृत्तभुजङ्ग एव हारो वलयं च यस्य, उद्वृत्तस्य भुजङ्गस्य हारवो हाशब्दो लयों यस्य च । यश्च गङ्गामधारयत् । यः अगं गोवर्धनं गां भूमिं चाधारयत् । यस्य शिरः शशिमच्चन्द्रवदाहुः हर इति नाम स्तुत्यं चाहुरमराः । शशिमथो राहोः शिरोहर इति स्तुत्यं नामाहुः । अन्धकासुरनाशकरः, अन्धकानां यादवानां वासकरश्च । सर्वदा सदा उमाधवः उमापतिः, सर्वप्रदो माधवश्च । लुब्धा व्याधा आशावन्तश्च । भूरिशिलीमुखा भूरिशरवन्तः भूरयो भृङ्गाश्च । वनम् अरण्यं जलं च । न याति वक्तुं देहीति । शरीरीति दत्स्खेति च वक्तुमयोग्य इत्यर्थः । मार्गणशतैः (बाणशतैः) प्रार्थनाशतैश्च । अस्य लेवस्य शब्दार्थनिष्ठत्वे वैमत्यादुद्धमतस्य स्वाभिमतत्वं दर्शयितुमाह - एष
३. 'यश्च य',
१. 'त्र हि ह', २. 'महोत्पलहरिणयोरुप' क. ख. पाठः. ४. 'वेदो' ख. पाठः