SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ निरूपणम् सव्याख्यालङ्कारसर्वस्वोपेतम् । १०१ विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेषः ॥३३॥ केवलविशेषणसाम्यं समासोक्तावुक्तम् । विशेष्ययुक्तं विशेषणसाम्यं त्वधिकृत्येदमुच्यते । तत्र द्वयोः प्राकरणिकयोः अप्राकरणिकयोः प्राकरणिकाप्राकरणिकयोर्वा श्लिष्टपदोपनिबन्धे श्लेषः । तत्राद्यं प्रकारद्वयं विशेषणविशेष्यसाम्य एव भवति । तृतीयस्तु प्रकारो विशेषणसाम्य एव भवति । विशेष्यस्यापि साम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमेऽर्थान्तरावगतिर्ध्वनिविषयः स्यात् । आये तु प्रकारद्वये द्वयोरप्यर्थयोर्वाच्यत्वम् । अत एव द्वयोर्वोपादान इति तृतीयप्रकारविषयत्वेनोक्तम् । विशेष्यस्यापि साम्य इति त्ववशिष्टप्रकारद्वयविषयम् । क्रमेण यथा"येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्वोवृत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् । वृथैव, शूरंमन्यतया सकलाचार्यभूतस्य द्रोणस्यापहासोऽपि जडचेष्टितमभूदिति च व्यज्यते ॥ विशेष्यस्यापीति । विशेष्ययुक्तत्वे सति विशेषणसाम्यं सामान्यलक्षणम् । तत्र विशेष्ययोगः श्लेषनिर्देशेन वा पृथगुपादानेन वेति द्वेधा । आद्यं प्रकारद्वयमिति । प्राकरणिकमात्रविषयमप्राकरणिकमात्रविषयं च । तृतीय उभयविषयः । ध्वनिविषय इति । शब्दशक्तिमूलध्वनिविषयः । तदुक्तम् - "अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रित । संयोगाद्यैरवाच्यार्थधीकृद् व्यापृतिरञ्जनम् ॥" इति । वाच्यत्वमिति । नियामकस्य प्रकरणादेरभावात् । अत एवेति। १. 'षण' क, ख. पाठः, २. 'नेरेव वि' ग. पाठः. सयागावर
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy