________________
१००
[परिकर
अलङ्कारसूत्रं ... विशेषणसाभिप्रायत्वं परिकरः ॥ ३२ ॥
विशेषणवैचित्र्यप्रस्तावादस्यह निर्देशः। विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः । अत एव प्रसन्नग. म्भीरपदार्थत्वाद् नायं ध्वनेविषयः । एवञ्च प्रतीयमानांशस्य वाच्योन्मुखत्वात् परिकर इति सार्थकं नाम । यथा"राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः
प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च । पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः ___ कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग् वक्षसः ॥" अत्र राज्ञ इत्यादौ सोत्प्रासत्वपरं प्रसन्नगम्भीरपदत्वम् । एवम् 'अङ्गराज! सेनापते! राजवल्लभ ! द्रोणापहासिन् ! कर्ण ! रक्षैनं भीमाद् दुश्शासनम्' इत्यादौ ज्ञेयम् ॥
प्रसन्नगम्भीरपदार्थत्वादिति । वाच्यस्यैव पदार्थस्य प्रसन्नगम्भीरत्वादित्यर्थः । एतेन ध्वनित्वनिरासकं व्यङ्गयस्यासौन्दर्यमुक्तम् । अत एव व्यङ्गयेऽविश्रेम्य वाच्य एव पर्यवसानं द्योतयितुं प्रतीयमानार्थगीकार इत्युक्तम् । गुणीभूतव्यङ्गयत्वप्रसङ्गस्त्वलङ्कारत्वस्य न बाधकः समासोक्त्यादिवत् । राज्ञ इत्यादि । भ्रातुर्दुश्शासनस्यारक्षणाद् राजत्वं कार्मुकं चाकिञ्चित्करम् । तद्धन्तुरनभियोगाद् मानधनत्वमपि विपर्यस्तम् । आपदि पृथग्जनवदवस्थानात् कुरुबान्धवत्वमपि वृथैव । पाण्डववधूकेशेत्यादिनाविमृश्यकारिणोऽस्यैवविधश्चित्रवध उचित इति व्यज्यते । अङ्गराजेत्यादि । एतावन्तं कालं दुर्योधनं विप्रलभ्य वृथैवाङ्गदेशो भुक्तः, कातरस्य भवतः सैनापत्यमप्यनुचितं, राज्ञश्च स्वद्विषयातिस्नेहो
३. 'ता' क. पाठः. ४. 'र्य
1. 'शेषः । .. २. 'सपरत्वं प्र' क. ख. पाठः. स्वमु', ५. 'श्रा ख. पाठः.