SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ निरूपणम्] सव्याख्यालङ्कारसर्वस्वोपेतम् । वृत्तेन पादमूलवेष्टनं, तच्चरणमूलवेष्टनत्वेन श्लेषमूलयातिशयोक्त्याध्यवसीयते । तत् तथाध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्युत्प्रेक्षामुत्थापयति । सोत्थाप्यमानैवाम्बुराशिमन्दाकिन्योर्भर्तृपत्नीव्यवहारांश्रयां समासोक्तिं गर्भीकरोति । एवञ्चोत्प्रेक्षासमासोक्त्योरेकः कालः । एवं 'नखक्षतानीव वनस्थलीनाम्' इत्यत्रापि वनस्थलीनां नायिकात्वव्यवहार उत्प्रेक्षानुप्रविष्टसमासोक्तिमूल एव । एवंमियं समासोक्तिरनन्तप्रपश्चेत्यनया दिशा स्वयमुत्प्रेक्ष्या ॥ पादमूल इवेति फंलितोऽर्थः । अत्र पञ्चालङ्काराः सम्भवन्ति -- अपह्नुतिः श्लेषोऽतिशयोक्तिरुत्प्रेक्षा समासोक्तिश्च । तत्र न निर्मोकपट्टः पादमूलेऽवेटत, अपितु मन्दाकिनीत्यपढ्नुतिः । अत्र च विषयस्यासत्यत्वं वस्त्वन्तररूपताभिधायिशब्दनिबन्धनम् । पादमूल इत्यत्र श्लेषः । पर्यन्तपर्वतवेष्टनचरणवेष्टनयोर्भेदेऽप्यभेदाध्यवसायादतिशयोक्तिः । मन्थव्यथाव्युपशमार्थमिवावेष्टतेति फलोत्प्रेक्षा । मन्थव्यथाव्युपशमार्थत्वेन सम्भावितपादमूलवेष्टनलक्षणशुद्धकार्यसमारोपनिमित्तेनाम्बुराशिमन्दाकिन्योर्भर्तृपत्नीव्यवहारसमारोपेण समासोक्तिः । तत्रापढ्नुतिः श्लेषानुगृहीतातिशयोक्तिश्वोत्प्रेक्षासमासोत्योरङ्गभूते । उत्प्रेक्षासमासोक्तयोस्त्वेककालत्वेन पौर्वापर्याभावादङ्गाङ्गिभावाभावेनैकवाचकानुप्रवेशलक्षणः सङ्करः । गर्भीकरोतीति । अन्यथैवंविधफलोद्देशेन पादमूलवेष्टनस्य मन्दाकिन्यामाचेतन्येनासम्भवात् । एकः काल इति । उभयोर्निमित्तभूतस्य विशिष्टस्य वेष्टनस्यैकत्वात् । एवं नखक्षतानीत्यादि । अत्रापि नखक्षतानां वनस्थलीमात्रेऽसम्भवाद् नखक्षतसम्बन्धाभावेन वनस्थलीनां नायिकाव्यवहारसमापिस्य चाघटमानत्वात् स्वरूपोत्प्रेक्षासमासोक्त्योस्तुल्यकालता । अनन्तप्रपञ्चेति । असङ्करविषये सङ्करविषये च भेदानामानन्त्यात् ।। १. 'खेल', २. 'रस', ३. 'वं म', ४. 'समु' क. स. पाठः, ५. राभि' ख. ग. पाठ:. ६. 'चें' क. ख. पाठः,
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy