________________
अलङ्कारसूत्रं
[समाप
विशेषरूपः सामान्याश्रयेणार्थान्तरन्यासेन समर्थ्यते । सामान्यस्ये चात्र श्लेषवशादुत्थानम् । शान्ततडित्कटाक्षेव्यौपयगर्भ विशेषणं समासान्तराश्रयेणात्र समानम् । 'असमाप्ते'त्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिधानात् सासान्यरूपोऽर्थो लिङ्गविशेषनिर्देशगर्भेण कार्योपनिबन्धेनोत्था पितया समासोत्या समारोपित नायकव्यवहारेण रविसन्ध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते ।
“आकृष्टिवेगविगलद् भुजगेन्द्रभोगनिर्मोकपपरिवेषैतयाम्बुराशेः ।
मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमवेष्टत पादमूले ॥” अत्र निर्मोक पट्टापह्नवेन समारोपिताया मन्दाकिन्या यद् वस्तु
५८
I
श्चेति पठ्यत् एव । नायकव्यवहारेत्यत्र नायकशब्देन नायको नायिका प्रतिनायिका च गृह्यते । उपगूढत्वेनोपगूहनकर्मकर्तृभूतयोः शशाङ्कशरदोर्ना - यकत्वं नायिकात्वं च प्रतीयते, शान्ततडित्कटाक्षत्वेन प्रावृषः प्रतिनायिका - त्वम् । श्लेषवशादिति । पयोधरशब्दस्य स्तनमेघवाचित्वात् । औपम्यगर्भमिति । शरदागमेन शान्तत्वमेव तडित्कटाक्षयोरौपम्यसाधकम् । समासान्तरेति । नायिकापक्षे शान्ततडित्सदृशकटाक्षेत्याश्रयणात् । अत्र विशेषणसाम्यनिमित्तो लौकिके वस्तुनि लौकिकवस्तुव्यवहार समारोपः, अनाक्रम्येत्यादौ च । तत्र शुद्धकार्यसमारोपो निमित्तम् । आकृष्टीत्यादि । यस्येति मन्दरो निर्दिश्यते । मथनाकर्षणवेग गलितनिर्मोकपट्टपरिवेष्टितपर्यन्तपर्वतो मन्दरोऽम्बुराशेर्मन्धव्यथाशमनाय तत्पत्नीभूतया मन्दाकिन्या वेष्टित
'स्प स्त्रीसा', ३. 'ष्टनया' क. ख. पाट:. ४. 'ते ।
'स्य श्ले',
१.
शा' ग. पाठः
२.