________________
निरूपणम् ]
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
९७
इति सरःश्रियां नायिकात्वप्रतीतिर्न समासोक्त्या, विशेषण - साम्याभावात् । तस्माद् नायिकात्रोपमानत्वेन प्रतीयते । न तु सरःश्रीधर्मत्वेन नायिकात्वप्रतीतिरित्येक देशविवर्तिन्युपमै वो - पास्या, गत्यन्तराभावात् । यैस्तु नोक्ता, तेषामप्युपसङ्ख्येयैव । यत्र तु 'केशपाशालिवृन्देन' इत्यादौ समासोक्तायामुपमायां समासान्तरेण विशेषणसाम्यं योजयितुं शक्यं, तत्रौपम्यगर्भ - विशेषणप्रभाविता समासोक्तिरेव युक्तेति न विरोधः कश्चित् । सा च समासोक्तिरर्थान्तरन्यासे क्वचित् समर्थ्यगतत्वेन कचित् समर्थकगतत्वेने च भवति । क्रमेणोदाहरणं यथा"अथोपगूढे शरदा शशाङ्के प्रावृड् य शान्तडित्कटाक्षा |
कासां न सौभाग्यगुणोऽङ्गनानां
नष्टः परिभ्रष्टपयोधराणाम् ॥ " "असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः ।
""
४
अनाक्रम्य जगत् कृत्स्नं नो सन्ध्यां भजते रविः ॥ अत्रोपगूढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदोः प्रावृषश्च नायकै व्यवहारप्रतीतौ समासोक्त्यालिङ्गित एवार्थो रित्यादि । उपसङ्ख्येयेति । उपसङ्ख्यानं नाम मूलकारेणानुक्तस्यापेक्षि तस्यार्थस्य विवरणकारेण तद्वाक्यसमीपे वचनम् । ननु कथम् ' उपमास-ङ्करयोरेकदेशविवर्तिनोरभावाद्' इति पूर्वमुक्तम् । अत आह— यत्र तु केशेत्यादि । अभाववादश्च प्रतिपदमुद्भटादिभिरलक्षितत्वात् । अस्याश्च समासोक्तेरलङ्कारान्तरापेक्षयाङ्गभावं दर्शयितुमाह सा चेत्यादि । अत्रोपगूढेत्यादि । शशाङ्कशरद्ग्रहणं प्रावृषोऽप्युपलक्षणम् । क्वचित्तु प्रावृष२. 'न भ', ३. 'ण य', ४. 'दोः ना', ५. 'कप्र' क.
१. 'मुप', ६. 'त्र के' ख. पाठः.
ख. पाठः.
-
0