SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ९६ अलङ्कारसूत्रं [समासोक्ति प्रतीतिः स्यात् । तत्कर्थमत्र व्यवस्था । अत्रोच्यते । एकदेशविवर्तिन्युपमा यदि प्रतिपदं नोक्ता, तत् सा केन प्रतिषिद्धा । सामान्यलक्षणद्वारेणायातायास्तस्या अत्रापि सम्भवात् । अथात्र नोपमानत्वेन नायकत्वं प्रतीयते, अपितु रविशशिनोरेव नायकत्वैव्यवहारप्रतीतिः । तयोरत्र नायकत्वात् । तदार्द्रनखक्षताभमित्यत्र स्थितमपि श्रुत्योपमानत्वं वस्तुपर्यालोचनयैन्द्रे धनुषि सञ्चारणीयम् । इन्द्रचापाभमानखक्षतं दधानेति प्रतीतेः । यथा 'दध्ना जुहोति' इत्यादौ दनि सञ्चार्यते विधिः । एवमियमुपमानुप्राणिता समासोक्तिरेव । इह पुनः ५ “नेत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरः श्रियः । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिर्वं ॥ " - तत्वादित्यर्थः । एवं समासोक्तिमेकदेशविवर्तिनीमुपमां च दूषयित्वैकदेशिमतेनैकदेशविवर्तिनीं स्थापयति- - अत्रोच्यत इत्यादिना । प्रतिपदं स्वकण्ठेन । सामान्येत्यादि । उपमासामान्यलक्षणस्य साधर्म्यस्य भेदाभेदतुल्यत्वस्य च विद्यमानत्वादित्यर्थः । अथ स्वमतमाह – अथात्रेत्यादि । यस्य विशेषणस्यासमानत्वेन पूर्वं समासोक्तिः प्रतिक्षिप्ता, तस्यापि विशेष(ण) स्य साम्यमापादयितुमाह - तदार्द्रेत्यादि । श्रुत्येति । शब्दवृत्त्या । सचारणीयमिति । नायिकापक्ष इति शेषः । अन्यत्रं श्रुतस्याप्यर्थस्यान्यत्र सञ्चारणे शास्त्रीयं दृष्टान्तमाह- - यथा दत्यादि । होमस्य शास्त्रान्तर (त्व ?) सिद्धत्वाद् दधनि विधेः सञ्चारणम् । उपमानुप्राणितेति । निमित्तभूतस्य विशेषणसाम्यस्य निष्पादनात् । अत्र नायकव्यवहारप्रतीतेरेकदेशविवयुपमानङ्गीकारः, नतु सर्वथा तदभाव इत्याह- इह पुन १. 'थं तत्र', २. 'ब', ३. 'त्वप्र', ४. 'नव', ५. 'ति । य', ६. 'व ॥ स' क. ख. पाठः ७ 'र्थः । अथा' ख. ग. पाठः ८ 'च', ९. 'स्य' ख. पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy