________________
मिरूपणम् ]
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
तत्र शुद्धकार्यसमारोपे कार्यस्य विशेषणत्वमौपचारिकमाश्रित्य विशेषणसाम्यादिति लक्षणं पूर्वशास्त्रानुसारेण विहितं यथाकथञ्चिद् योज्यम् । इह तु -
"ऐन्द्रं धनुः पाण्डुपयोधरेण शरद् दधानार्दनखक्षताभम् । प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ॥" अस्ति तावद् रविशशिनोर्नायकत्वप्रतीतिः । न चात्र विशेपण साम्यमिति सा कुतस्त्या । प्रसादयन्ती सकलङ्कमिन्दुमिति विशेषणसाम्याच्लरदो नायिकात्वप्रतीतौ तदानुगुण्यात् तयोः समासोक्त्या नायकत्वप्रतीतिरिति चेद्, आईनखक्षताभमैन्द्रं धनुर्दधानेत्येतद्विशेषणं कथं साम्येन निर्दिष्टम् । न चैकदेशधिवर्तिन्युपमोक्ता, यत्सामर्थ्यान्नायैकत्वन्तरीत्यादौ विशेषणसाधारण्यम् । ननु “विलिखति कुचावि" त्यादौ विशेषणसाम्याभावात् कथं समासोक्तित्वम्, अत आह- -तत्र शुद्धकार्येति । औपचारिकमिति । उपचारस्य निमित्तमत्र वर्तमानत्वम् । पूर्वशास्त्रेति । उद्भदिमतानुसारेण । क्वचिलक्ष्ये आक्षेपपूर्वकं समासोक्तित्वं स्थापयति — इह स्थित्यादिना । विशेषणसाम्यपूर्वकं दूषणीयत्वेन नातिसुकरत्वाच्छरदो नायिकात्वप्रतीतिं पश्चाद् दूषयिष्यन् विशेषणसाम्यस्पर्शविरहादतिसुकरत्वेन रविशशिनोर्नायकत्वप्रतीतिं सूचीकटाहन्यायेन प्रतिक्षिपति --- अस्ति तावदित्यादिना । समासोक्तिं हेतुत्वेनाशङ्कते -- प्रसादयन्तीत्यादि । प्रसादस्य विशदीकरणानुनयलक्षणोभयार्थत्वात् । आईनखक्षताभमित्यादि । यद्यपि प्रसादयन्तीति विशेषणं समानं तथापि विशेषणान्तरस्यासमानत्वात् तन्मूलभूतापि शरदो नायिकात्वप्रतीतिर्नास्तीत्यर्थः । इन्द्रधनुर्नखक्षतयोरौपम्यस्य शाब्दत्वात् शरदो नायिकायाश्चार्थत्वादेकदेशविवर्त्य - पमाशङ्का न कार्येत्याह - न चेत्यादि । उपमाँप्रभेदत्वेन तस्या अलक्षि
९५
१. 'ज्यम् । ऐ', २. ' इत्यत्रास्ति', ३. 'च वि', ४ 'ति विशे', ५. 'यि - कात्व' क. ख. पाठः. ६. 'टम', ७. 'माझे' क. पाठः,