________________
अलकारसूत्र
[समासोक्तिअत्र भरतादिशास्त्रप्रसिद्धवस्तुसमारोपः । तथाहि-अत्र गुणगणगतत्वेन शृङ्गारादिरसव्यवहारः प्रतीयते। यतो रसो न तात्पर्यशक्तिज्ञेयः, नाप्यनुमानविषयः, न शब्दैरभिधाव्यापारेण वाच्यीकृतः, न लक्षणागोचरः, किन्तु विगलितवेद्यान्तरत्वेन परिहतपारिमित्यो व्यञ्जनलक्षणापूर्वव्यापारविषयीकृतोऽनुकार्यानुकर्तृगतत्वपरिहारेण सहृदयगत इात प्रसपत्तात्परित्यादिपदै रस एव प्रतीयते । एवमन्यदपि ज्ञेयम् । "पश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमाभ्यन्तरी
यत्र त्रुट्यति मध्यमापि मधुरध्वन्युज्जिगोसारसात् । चाटूच्चारणचापलं वितनुतां वाक् तत्र बाह्या कथं
देव्या ते परया प्रभो ! सह रहःक्रीडादृढालिङ्गने ॥" अत्रागमप्रसिद्धे वस्तुनि लौकिकवस्तुव्यवहारसमारोपः । लौकिकवस्तुव्यवहारश्च रसादिभेदाद् बहुभेद इत्युक्तं प्राक् । तात्परित्यादि । अत्र सर्वत्रापि विशेषणसाधारण्यम् । अपूर्वव्यापारो लक्ष्य इत्यादी व्यापारादिशब्दानामुत्साहार्थप्रतिपादनशक्त्युन्नेयत्वलक्षणागम्यत्वलक्षणार्थद्वयवाचित्वात् श्लिष्टविशेषणत्वं वा । गुरुवर ! तव स हृदयस्थो बुधैरपूर्वव्यापारः गुणान्तरव्यापारातिशायिव्यापार इत्यध्यवसितः । पश्यन्तीत्यादि । प्रथमोदितत्वात् पश्यन्त्या आभ्यन्तरत्वम् । मध्यर्मा वक्तृबुद्धिसंस्था वागवस्था । बाह्या वैखरी । परया सूक्ष्मया । अत्रागमप्रसिद्धेत्यादि । यथा कस्मिंश्चिद् राजनि वल्लभतमया देव्या सह क्रीडति अन्तरङ्गभूता योषित् लज्जया न प्रकाशीभवति, मध्यमा तूष्णीमास्ते, बाह्यायाः का कथा, एवं परे ब्रह्मणि सूक्ष्मामात्रगोचरीभूते पश्यन्त्यादयस्तद्विषये स्वस्वकार्य नारभन्ते । अत्र तिरयतीत्यादौ कार्यसमारोपः । आभ्य
१. 'ते। र', २. 'युक्तिज्ञेयः', ३. 'हा' क. ख. पाठः. ४. 'वा', ५. 'वा । प' ग. पाठः. ६. 'मा बु' क. पाठः.