________________
निरूपणम् । सव्याख्यालङ्कारसर्वस्योपेतम् । अत्र लौकिके वस्तुनि तर्कशास्त्रप्रसिद्धवस्तुसमारोपः । पाण्डित्यशब्दः प्रकृते लक्षणया व्याख्येयः । तथा - “मन्दमग्निमधुरर्यमोपला दर्शितश्वयथु चाभवत् तमः ।
दृष्टयस्तिमिरजं सिषेविरे दोषमोषधिपतेरसन्निधौ ॥" अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः । "गण्डान्ते मददन्तिनां प्रहस्तः क्ष्मामण्डले वै धृते
रक्षामाददतः क्रुधा विदधतो लाटेषु यात्रोत्सवम् । पूर्वामाश्रयतो गतिं शुभकरीमासेवमानस्य ते
वर्धन्ते विजयश्रियः किमिव न श्रेयस्विनां मङ्गलम् ॥" अत्र ज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपः । "प्रसर्पत्तात्पर्यैरपि सदनुमानैकरसिकै
रपि ज्ञेयो नो यः परिमितगतित्वं परिजहत् । अपूर्वव्यापारो गुरुवर ! बुधैरध्यवसितो ___ न वाच्यो नो लक्ष्यस्तव स हृदयस्थो गुणगणः ॥" कार । अत्र श्लिष्टविशेषणत्वम् । लक्षणयेति । प्रस्तुतार्थनिर्वहणसामर्थ्य लक्ष्यते । उदाहरणद्वयप्रदर्शनं जल्पवितण्डालक्षणकथाभेदोपाधिकतर्कभेदप्रदर्शनार्थम् । तत्र पूर्वत्र जल्पः, उत्तरत्र वितण्डे त्याहुः । मन्दमित्यादि । अग्निं सूर्यतेजस्सम्पर्कात्थितम् । तस्य च मान्द्यमादित्यस्य स्फुटमनुदितत्वात् । अन्यत्र वैश्वानरोऽग्निः । श्वयथुः वृद्धिः शोफाख्यो व्याधिश्च । तिमिरं तमः काचस्य पूर्वावस्था च । ओषधिपतिश्चन्द्रः सन्निहितौषधिको भिषक् च । अत्र भन्दमग्निमधुरिति कार्यसमारोपः । दर्शितश्वयथ्वित्यादौ श्लिष्टविशेषणत्वम् । गण्डान्त इत्यादि । गण्डान्ते कपोलान्ते नक्षत्रविशेषसन्धौ च । क्ष्मामण्डले वै धृते । वैशब्दः प्रसिद्धौ । धृते भूमण्डले राशिमण्डलान्तर्वर्तिनि वैधृतनाम्नि योगे च । लाटेषु देशविशेषे व्यतीपातभेदेषु च । पूर्वां प्राची दिशं पूर्वफल्गुन्याख्यं नक्षत्रं च । पूर्वामाश्रित्य जयलक्षणशुभकरी गतिमासेवमानस्येत्यन्वयः । अत्र लिष्टविशेषणत्वम् । प्रसर्प