SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ...... . - .. - -- - -. अलकारसूत्रं [समासोक्तिअत्र लावण्ये लौकिके वस्तुनि मीमांसाशास्त्रप्रसिद्धवस्तुसमारोपः । एवं तर्कायुर्वेदज्योतिश्शास्त्रादिप्रसिद्धवस्तुसमारोपो बोद्धव्यः । यथा "दशवक्त्रविवादेऽस्मिन्नुत्खातखरदूषणः । खपक्षकक्ष्यां वीरोऽयं दूरमारोपयिष्यति ॥" "स्वपक्षलीलाललितैरुपोढ हेतौ स्मरे दर्शयतो विशेषम् । मानं निराकर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत् ॥" साक्षात्करणं व्यावर्तधर्मश्च । अत्र श्लेषवशेनें विशेषणसाम्यं निमित्तम् । मीमांसाशास्त्रेति । भाट्टदर्शनप्रसिद्धस्य प्रमाणषट्कस्य निषेध्यत्वात् । तत्र सीमानमित्यादिना प्रत्यक्षस्य निषेधः, नान्येनेत्यनुमानस्य, न स्पृष्टमित्यागमस्य, दृष्टोपमानमित्युपमानस्य, अर्थादापतितमित्यर्थापत्तेः, न च न यदित्यभावस्य । अथवा मीमांसाशास्त्रप्रसिद्धत्यनेनोत्तरमीमांसाप्रसिद्धसकलप्रमाणागोचरब्रह्मलक्षणवस्तूच्यते । अत्र सीमानं न जगामेत्यादिना सर्वत्र कार्यसमारोपः । न स्पृष्टमित्यादौ विशेषणसाधारण्यं वा । दशवक्रेत्यादि । उत्खातखरदूषणः निहतखरदूषणाख्यराक्षसः निरस्तदुरुत्तरासिद्धविरुद्धादिश्च । स्वपक्षः स्वबन्धुः स्वसिद्धान्तश्च । अत्र रामे प्रतिवाधुक्तदूपणनिरासस्वपक्षस्थापनलक्षणवादिव्यवहारः समारोप्यते । स्वपक्षे. त्यादि । मानमभिमानं प्रमाणं च । अत्र कोकिले वावदूकव्यवहारसमारोपः। यथा वावदूक इतरतार्किकप्रमाणनिराकरणाय निर्दिष्टसाधने वाक्ये स्वपक्षानुकूलैक्यैिः साध्यसिद्धिलक्षणं विशेषं दर्शयन् अखण्डितपाण्डित्यो भवति, एवं कोकिलोऽप्यात्मगरुल्लीलाभिः प्राप्तुमधुमासलक्षणस्वोदयहेतौ (कारणे ?) अधिगतशस्त्रे वा स्मरे उत्कर्ष दर्शयन् यूनामभिमानं निराच १. 'पो बोहव्यः । ए', २. 'वं च त', ३. 'सौ' क. ख. पाठः. ४. 'कश्च ५. 'न सा', .. 'भ', ७. 'स्प', ८. 'पः । द' ख. पाठः.
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy