________________
निरूपणम्] सव्याख्यालङ्कारसर्वस्वोपेतम् ।
"द्यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब ___ रुडाम्बरः शशिकलामलिखत् करात्रैः । अन्तर्निमग्नचरपुष्पशरोऽतितोपात्
किं किं चकार तरुणो न यदीक्षणाग्निः ॥" लौकिकं च वस्तु रसादिभेदाद् नानारूपं स्वयमुत्प्रेक्ष्यम् ।
“यैरेकरूपमखिलास्वपि वृत्तिषु त्वां ___ पश्यद्भिरव्ययमसङ्ख्यतया प्रवृत्तम् । . लोपः कृतः खलु परत्वजुषो विभक्ते
स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये ॥" अत्रागमशास्त्रप्रसिद्ध वस्तुनि व्याकरणेशास्त्रप्रसिद्धवस्तुसमारोपः। "सीमानं न जगाम यन्नयनयोर्नान्येन यत् सङ्गतं
न स्पृष्टं वचसा कदाचिदपि यद् दृष्टोपमानं न यत् । अर्थादापतितं न यन्न च न यत् तत् किञ्चिदेणीदृशो
लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकम् ॥” कण्टकिभिरिति । विशेषणसाम्धमिति । श्लिष्टत्वलक्षणम् । व्यवहारसमारोपप्रकारेत्यादि । यद्यपीतः पूर्वं दत्तेष्वखिलेष्वप्युदाहरणेषु लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः, तथापि स्वतन्त्रतयोपन्यासाय द्यामालिलिङ्गेत्याधुपन्यासः । अत्रेश्वरेक्षणाग्न्यादीनां कामुकादीनां च लौकिकत्वम् । आलिङ्गनादेः कार्यस्य समारोपाद् अन्तर्निमग्नेत्यादिविशेषणस्य साधारणत्वाचोभयमयत्वम् । लौकिकेत्यादि । अत्र च रौद्रे शृङ्गारव्यवहारः । यरित्यादि । वृत्तिः चित्तवृत्तिः परार्थाभिधानं च । अव्ययं व्ययरहितं पदभेदं च । सङ्खयातिगत्वादसत्त्ववाचितयाँ वासङ्ख्यत्वम् । परत्वजुषो विभक्तेः अन्यत्वजुषो विभागस्य परदेशवर्तिनः स्वादेश्व । लक्षणं
१. 'र', २. 'पातात्', ३. 'भेदं स्व', ४. 'किल प', ५. 'ण' क. ख. पाठः. ६. 'दिकत्वा' क. पाठ:. ७. 'यास' ख. पाठः,