________________
अलङ्कारसूत्रं
[समासोक्ति सर्वत्र चात्र व्यवहारसमारोपे एव जीवितम् । स च लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः, शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः, शास्त्राये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्धा भवति । तदेवं बहुप्रकारा समासोक्तिः । तत्र शुद्धकार्यसमारोपेण यथा - "विलिखति कुचावुच्चैर्गाढं करोति कचग्रहं
लिखति ललिते वक्रे पत्रावलीमसमञ्जसाम् । क्षितिप! खदिरः श्रोणीबिम्बाद् विकर्षति चांशुकं
मरुभुवि हठात् त्रस्यन्तीनां तवारिमृगीदृशाम् ॥" अत्र पत्रावलीविलेखनादिशुद्धकार्यसमारोपात् खदिरस्य हठकामुकव्यवहारप्रतीतिः । विशेषणसाम्येनोदाहृता । उभयमयत्वेन यथा"नि नान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः
कणे रुग् जनिता कृतं च नयने नीलाब्जकान्ते क्षतम् । यान्तीनामतिसम्भ्रमाकुलपदन्यासं मरौ नीरसैः
किं किं कण्टकिभिः कृतं न तरुभिस्त्व?रिवामभ्रुवाम् ॥" अत्र नीरसैः कण्टकिभिरिति विशेषणसाम्यम् । निनान्यलकानीत्यादिषु कार्यसमारोपः । व्यवहारसमारोपप्रकारचतुष्टये क्रमेणोदाहरणम् । यथा - रोपविशेषणसाम्यमयत्वेन । विशेषणसाधारण्यभेदे सतोऽपि कार्यसमारोपस्य सहकारितया विवक्षितत्वेनाप्राधान्यादुभयमयत्वाभावः । नीरसैः
१. 'त्रैव चा',
२. 'पो जी' क. स. पाठः.