________________
निरूपणम्] सव्याख्यालकारसर्वस्वोपेतम्। अत्र हि पत्रलिपिकायस्थशब्देषु श्लेषगर्भ रूपकं द्विरेफमषीलवैरित्येतद्रूपकनिमित्तम् । अस्य च प्रचुरः प्रयोगविषय इति नात्र समासोक्तिबुद्धिः कार्या । तदेवं श्लिष्टविशेषणसमुत्थापितैका ! साधारणविशेषणसमुत्थापिता तु धर्मकार्यसमारोपाभ्यां विभेदा । औपन्याविशेषण सत्यापितोपमासङ्करसमासाभ्यां हि भेदा । रूपकसनासाश्रयेण तु भेदद्वयमस्या न विषयः । तदेवं पञ्चप्रकारा समासोक्तिः । इत्थं च शुद्धकार्यसमारोपेण विशेषणसाम्येनोभयमयत्वेन च प्रथम त्रिधा समासोक्तिः । विशेषणसाम्यं पञ्चप्रकारं निर्णीतम् । पगमक्षणिकत्ववनायव्ययावधिकान् गमागमावधिकानिति प्रकृतमर्थ, सकलकायस्थान् विसूत्रयन् अवरोपयन् आयव्ययावधिकं विहितवानित्यप्रकृतं चाहुः । अत्र द्विरेफार्मषीलवाद्यारोपस्य शाब्दत्वाद् मधोः पिशुनत्वारोपस्य चार्थत्वादेकदेशविवर्तित्वम् । पत्रलिपीत्यादि । पत्रादयः शब्दा दलमात्रतालीपत्ररेखामात्रलिखिताक्षरसंस्थानशररिस्थगणकलक्षणोभयार्थवाचिनः । रूपकनिमित्तमिति । न्यस्तत्वादिसाधकवशादवगतं द्विरेफमपीलवैरिति रुपकं निमित्तं यस्येति बहुव्रीहिः, न तत्पुरुषः, पत्रादिशब्दानामर्थद्वयावभासने निमित्तान्तराभावेन श्लेषस्य पूर्वसिद्धत्वाभावाद्, 'भ्रमिमि'त्यादावुक्तन्यायेन श्लेषस्यैव प्राप्तेश्च, अस्यैकदेशविवर्तिनः समासोक्तिव्यतिरिक्तेऽपि विषये दर्शनात् । साधारणेत्यादि । तत्र धर्मसमारोप उदाहृतः । कार्यसमारोपे यथा ----
सर्वानवा प्रतिजानते त्वां सन्तः कथं नाम यदुप्रवीर ! ।
करे गृहीता भवता कृपाणी कण्टग्रहं यत् तनुते परेषाम् ।। अत्र कृपाण्या दुष्टनायिकात्वप्रतीतिः । करे गृहीतेति साधारणं विशेषणम् । कण्ठग्रहणलक्षणकार्यसमारोपश्च द्रष्टव्यः । उभयमयत्वेनेति । कार्यसमा
१. 'त्थं शु' क. ख. पाठः, २. 'ले', ३. 'वचनाः : रू' ख. ग, पाठः. ४. 'इल' ख. पाठः.