________________
अलङ्कारसूत्रं
[समासोक्तिअत्र निरीक्षणानुगुण्याद् विद्युन्नयनैरिति रूपके सिद्धे पयोदस्य द्रष्टुपुरुषरूपणमार्ततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्ततां भजते । श्लिष्टं यथा"मदनगणनास्थाने ले व्यप्रपञ्चमुदञ्चयन्
विचकिलबृहत्पत्रन्यस्तद्विरेफमषीलवैः । कुटिललिपिभिः कं कायस्थं न नाम विसूत्रयन्
व्यधित विरहिप्राणेष्वायव्ययावधिकं मधुः ॥" तच्चैकदेशेत्यादिना । निरीक्षणानुगुण्यादित्यनेन रूपकपरिग्रहे साधकमुक्तम् । अत्र चावयवयोर्विद्युन्नयनयो रूपणस्य शाब्दत्वादवयविनोः पयोदद्रपुरुषयोश्वार्थत्वादेकदेशविवर्तित्वम् । आर्ततरं ररासेत्यत्रे. त्यादि । यद्यपि रसितमानं पयोदस्य सिद्धं, तथापि चन्द्रवमनशङ्कानिमित्तकार्तिविशिष्टस्य तस्यासिद्धत्वादुत्प्रेक्ष्यत्वम् । आर्तेश्च चेतनधर्मत्वात् पयोदमानेऽसम्भवाद् द्रपुरुषत्वारोपः । अत्रं चारोपितपुरुषत्वः पयोदो विषयः । विशिष्टं रसितं विषयी । चन्द्रसदृशाभिसारिकामुखदर्शनं हेतुनिमित्तम् । यद्वा धारानिपातैरित्यादिबुद्धिरूपो हेतुर्विषयी । पूर्वक एव विषयः । विशिष्टरैसितलक्षणं कार्य निमित्तम् । मदनगणनेत्यादि । अत्र मधुः पिशुनत्वेन रूप्यते । स यथा कस्यचिद् राज्ञो गणनास्थानं गत्वा लेख्यप्रपञ्चमुत्क्षिप्य तद्गतैरेवाक्षरितरकायस्थवर्गमशेषं व्याकुळीकृत्य राजसम्बन्धिद्रव्याणामायव्यययोः स्वयमधिकारितामासादयति, एवं मधुरपि मल्लिकापत्रस्थैर्द्विरेफैः सकलान् कायस्थान् शरीरस्थान् प्राणिनो व्याकुलीकुर्वन् विरहिप्राणेषु मूर्छागभेऽपहारलक्षणमायं तदपगमे तत्प्रत्यर्पणलक्षणं व्ययं च विहितवान् । अन्वयस्तु मदनगणनास्थाने लेख्यप्रपञ्चमुदञ्चयन् मधुः विचकिलबृहत्पत्रन्यस्तद्विरेफमपीलवैः कुटिललिपिभिः कं कायस्थं न नाम विसूत्रयन्नधिकं विरहिप्राणेष्वायव्ययौ व्यधित । अन्ये तु विरहिप्राणेषु कं कायस्थं विसूत्रयन् आयव्ययावधिकमायव्ययाववधी यस्य तं न नाम व्यधितेत्यन्वयं कुर्वन्तः सकलान् विरहिप्राणाञ्छिथिलीकुर्वन् मूर्छागमतद
१. 'त्रे त्वस' ख. ग. पाठः. २. 'बारो' ग, पाठः. ३. 'विषयल' ख. पाठः.