________________
निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम् । समासे पश्चाद् दन्तप्रभासदृशैः पुष्पैश्वितेति समासान्तराश्रयेण समानविशेषणमाहात्म्याल्लताव्यवहारप्रतीतिः । अत्रैव परीता हरिणेक्षणा इति पाठे उपमारूपकसाधकाभावात् सदूरसमासाश्रयेण कृते योजने पश्चात् पूर्ववत् समासान्तरमहिम्ना लताप्रतीतिज्ञेया । रूपकगर्भत्वेने तु समासान्तराश्रयेणात् समानविशेषणत्वं भवदपि न समासोक्तेः प्रयोजकम् । एकदेशविवर्तिरूपकमुखेनैवार्थान्तरप्रतीतेस्तस्या वैयात् । न च प्रोनिदर्शितोपमासङ्करविषय एष न्यायः । उपमासङ्करयोरेकदेशविवर्तिनोरभावात् । तच्चैकदेशविवर्तिरूपकमश्लेषेण श्लेषेण च भवतीति द्विविधम् । अश्लिष्टं यथा“निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः। धारानिपातैः सह किन्नु वान्तश्चन्द्रो मयेत्याततरं ररास ॥"
पाणिकेशपाशानामेव साधकत्वात् । दन्तप्रभासदृशैः पुष्पैरिति । शाकपार्थिवादित्वात् समास इत्याहुः । सङ्करसमासाश्रयेणेति । दन्तप्रभाः पुष्पाणीवेति दन्तप्रभा एवं पुष्पाणीत्यनियमेन । पूर्ववदिति । दन्तप्रभासदृशैरित्यर्थः ? थे) । ननु विशेषणसाम्यस्यौपम्यगर्भत्ववद् रूपकगर्भत्वमपि निमित्तं किं न स्यादित्यत आह - रूपकगर्भत्वेनेत्यादिना । समासान्तराश्रयणादिति । सदृशादिमध्यमपदलोपवत्समासापेक्षया रूपकसमासस्य समासान्तरत्वम् । तस्याः समासोक्तेः । तुल्यन्यायतयौपम्यगर्भाया अपि समासोक्तेः प्रतिक्षेपो नाशकनीय इत्याह -न चेत्यादिना । एकदेशविवर्तिरूपकस्यैव समासोक्तिबुद्धिं व्यावर्तयितुमवान्तरभेदप्रदर्शनपूर्वकमुदाहरणं प्रदर्शयति - . १ 'न स', २. 'यणे स' क, ख., 'यात्' ग. पाठः. ३. 'पूर्वद' क. ख. पाठः. ४. 'दि ।' क. पाठः,