________________
[समासोक्ति
.. अलङ्कारसूत्रं विशिष्टयोः प्रतीतेः । साधारण्येन यथा
"तन्वी मनोरमा बाला लोलाक्षी पुष्पहासिनी। :
विकासमेति सुभग! भवदर्शनमात्रतः ॥" अत्र तन्वीत्यादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः । अत्र च लतैकगामिविकासाख्यधर्मसमारोपः का. रणम् । अन्यथा विशेषणसाम्यमात्रेण नियतस्य लताव्यवहारस्याप्रतीतेः । विकासः प्रकृते तूपचरितो ज्ञेयः । एवं कार्यसमारोपेऽपि ज्ञेयम् । इयं चै पूर्वापेक्षयास्फुटा । औपम्यगर्भत्वेन यथा
"दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी।
केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ॥" अत्र दन्तप्रभाः पुष्पाणीवेति सुवेषत्ववशादुपमागर्भत्वेन कृते इत्यत आह --- अपरित्यक्तेति । रूपके हि मुखादीनां स्वरूपपरित्यागेन कमलादिरूपमेव प्राधान्येन प्रतीयते । तन्वीत्यादि । पुष्पहासिनीत्यत्र यद्यपि पुष्पवद्धसितशीला पुष्पहासवतीति चार्थद्वयप्रतीतिः, तथापि पुष्पशब्दस्य हसतेश्वार्थद्वयासम्भवात् साधारण्यम् । प्रकृते तूपचरित इति । शोभाजनकत्वसाम्याल्लोलाक्ष्या हर्षो विकास उच्यते । एवं कार्येत्यादि । कार्यसमारोपसहकारिणि विशेषणसाधारण्य इत्यर्थः । इयं च पूर्वापेक्षयास्फुटेति । तत्र विशेषणानामर्थद्वयवाचकतयाप्रकतसाधारणानां बहूनां धर्माणां निर्देशादप्रकृतस्य स्फुटा प्रतीतिः, इह पुनरन्यथेत्यस्फुटत्वम् । अन्ये तु पूर्वापेक्षया तन्वीत्यादिविशेषणसाधारण्यमात्रस्य निमित्तत्वेनापेक्षया अस्फुटेति धर्मसमारोपाद्यनङ्गीकारेऽनिष्टं दर्शितमित्याहुः । दन्तप्रभाः पुष्पाणीवेति । व्याघ्रादेराकृतिगणत्वात् समासः । सुवेषत्ववशादित्यनेनोपमापरिग्रहे साधकमाह । सुवेषत्वं प्रति दन्तप्रभा
१. 'सस्तु प्र', २. 'त उप' ग. पाठः. ३. 'च समासोक्तिः पू' मूलपाठः. ४. 'खे य' क. ख. पाठः. ५. 'भावा' क. ग. पाठः,