________________
निरूपणम्
सव्याल्यालङ्कारसर्वस्वोपेतम् । मेव । तच्च विशेषणसाम्यं श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च त्रिधा भवति । तत्र श्लिष्टतया यथा -
"उपोढरागेण विलोलतारकं
तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया
पुरोऽपि रागाद् गलितं न लक्षितम् ॥" अत्र निशाशशिनोः श्लिष्टंविशेषणमहिम्ना नायकव्यवहारप्रतीतिः । अपरित्यक्तस्वरूपयोनिशाशशिनो यकताख्यधर्ममुखादेः । तद्रूपंरूपित्वाद् अप्रकृतरूपेण रूपवत्त्वात् । नचेति । निमित्तभूतम् । श्लिष्टतयेति । अर्थभेदेऽपि शब्दस्वरूपस्यानुगतत्वात् । साधारण्येनेति । अर्थस्वरूपस्यैव उभयत्रानुवृत्तत्वात् । औपम्यगर्भत्वेनेति । प्रस्तुताप्रस्तुतसम्बन्धिनोः पदार्थयोः परस्परमुपमानोपमेयभाववशेनोभयविशेषणत्वम् । उपोढरागेणेत्यादि । रागो लौहित्यमनुरागश्च । तस्य वहनीयत्वेन गुरुतमत्वं सूच्यते । विलोलतारकं विलोलनक्षत्रं विलोलकनीनिकं च । तथेति । झटिति कामसूत्रोक्तचुम्बनादिप्रकारातिशयेन च, तादृशस्यैव चुम्बनादेस्तारकातरलतादिहेतुत्वात् । गृहीतम् आक्रान्तं चुम्बितं च । मुखमारम्भो वक्र च । समस्तं सकलं मिश्रितं च | तिमिरांशुकं तिमिरमंशवश्च रविसम्बन्धिनः, तिमिरसदृशं प्रौढाङ्गनोचितं नीलवसनं च । तया निशया हेतुभूतया, लक्षणक्रियां प्रति कर्तृभूतया नायिकया च । पुरोऽपीति । प्राच्यामग्रतश्च । रागात् सन्ध्यारुणिनः । अनन्तरमिति शेषः ! अनुरागादित्येव । गलितं प्रशान्तं भ्रष्टं च । लक्षितं, न केनचिदित्यर्थात् । प्रभातसन्ध्यानन्तरं प्राच्यां गलितमपि तिमिरमिश्रं सूर्यांशुजालमुदयरक्तेन्दुकरसम्पृक्तनैशतमोयुक्तत्वाद् रात्रिमुखस्य गलितत्वेन न लक्षितमद्यापि स्थितमिवाभूदित्यर्थः । नायिकापक्षे गलितमपि न तावत् प्रत्यक्षेणानवगतमेव, अपितून्नीतमपि नेत्यर्थः । ननु कथमत्र नायकव्यवहारप्रतीतिः, न तु नायकत्वारोप
- १. 'तृत्ववि' क. ख. पाठः. २. 'पेण रू' ख. पाठः. ३. 'रुत्वं' ख. ग. पाठः. ४. 'तनी' ख. पाठः, ५. 'रंग' ख. ग. पाठः, ६. 'प्यवस्थि' ग. पाठः.