________________
अलकारसूत्र
[समासोक्ति विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः॥३१॥
इह प्रस्तुताप्रस्तुतानां क्वचिद् वाच्यत्वं क्वचिद् गंम्यत्वमिति द्वैतम् ! वाच्यत्वं च श्लेषनिर्देशभङ्गया पृथगुपादानेन वेत्यपि द्वैतम् । एतद् द्विभेदमपि श्लेषालङ्कारस्य विषयः । गम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशंसाविषयः । अप्रस्तुतनिष्ठं तु समासोक्तेर्गोचरः । तत्रं च निमित्तं विशेषणसाम्यम् । विशेष्यस्यापि साम्ये श्लेषप्राप्तेः । विशेषणसाम्यवाद्धि प्रतीयमानमप्रस्तुतं प्रस्तुतावच्छेदकत्वेन प्रतीयते । अवच्छेदकत्वाच्च व्यवहारसमारोपो न तु रूपसमारोपः । रूपसमारोपे त्ववच्छादितत्वेन प्रकृतस्य तद्रूपरूपित्वाद् रूपक
अलङ्कारद्वयमिति । समासोक्तिपरिकररूपम् । विशेषणविच्छित्तिश्च क्वचित् साम्यवशात् क्वचित् साभिप्रायत्यवशात् । विशेषणसाम्यादित्यादि । अप्रस्तुतँस्य गम्यत्व इत्यनेन सारूप्यनिमित्तमप्रस्तुतप्रशंसाभेदं व्यवच्छिनत्ति । इहेत्यादिना श्लेषाप्रस्तुतप्रशंसासमासोक्तीनां विषयविभागं दर्शयति । इह विशेषणसाम्यविषये । एतद् विभेदमिति । प्रकारद्वयविशिष्टं वाच्यत्वम् । तत्र चेति । अप्रस्तुतस्य गम्यत्वे । श्लेषप्राप्तरिति । एतत् समासोक्तिव्यतिरिक्तप्राप्तिमात्रोपलक्षणम् । प्रस्तुताप्रस्तुतनिष्ठत्वे विशेषणविशेष्योभय साम्ये शब्दशक्तिमूलध्वनिताप्राप्तेः । एतच्च वक्ष्यति 'विशेषस्यापि साम्ये त्वर्थप्रकरणादी'त्यादिना । अथवोपादानकृतं साम्यमिह विवक्षितम् । प्रस्तुतवदप्रस्तुतस्यापि पृथगुपादान इत्यर्थः । प्रस्तुतावच्छेदकत्वेन प्रस्तुतविशेषकत्वेन । अवच्छेदकत्वाचेत्यादि । तथा उपोढरागेणेत्यादौ मुखग्रहणादिलक्षणं नायकव्यवहारमात्रं समारोप्यते, न तु नायकरूपम् । अवच्छादितत्वेन उपरक्तत्वेन । प्रकृतस्य
१. 'व्यङ्गयत्व', २., ३. 'ध', ४. 'थम् ।', ५. 'त्र नि', ६. 'शात् प्र' क. ख. पाठः ७. तेत्य' क., 'तप्रशंसेय' ग. पाठः. ८. 'षत्वे', ९. 'ति।' ख, पाठः.