________________
निरूपणम्]
सव्याख्यालङ्कारसर्वस्वोपेतम् । एवञ्च... "निरर्थकं जन्म गतं नलिन्या
यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव
दृष्टा विबुद्धा नलिनी न येन ॥" इत्यादौ विनोक्तिरेव । तुहिनांशुदर्शनं विना नलिनीजन्मनोऽशोभनत्वप्रतीतेः । इयं च परस्परविनोक्तिभङ्गया चमत्कारातिशयकृत् । यथोदाहते विषये । द्वितीया यथा -
"मृगलोचनया विना विचित्र-..
व्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतद्युतिसुन्दराशयोऽयं
सुहृदा तेन विना नरेन्द्रसूनुः ।" अत्राशोभनत्वाभावः शोभनपदार्थप्रक्षेपभङ्गयोक्तः । सैषा द्विधा विनोक्तिः॥
अधुना विशेषणविच्छित्त्याश्रयेणालङ्कारद्वयमुच्यते । तत्रादौ विशेषणसाम्यावष्टम्भेन समासोक्तिमाह - ब्दाप्रयोगेऽपि विनार्थविवक्षाया निमित्तत्वे । विनोक्तिरेवेति । विनाशब्दाद्यभावेऽपीति शेषः । यद्वा अप्रस्तुतसरूपस्तुतौ सत्यामपि विनोक्तावेव कवेः संरम्भादिति भावः । अशोभनत्वप्रतीतेः शोभनत्वाभावप्रतीतेरित्यर्थः । इयं चेति । विनाशब्दाप्रयोगेऽपि विनार्थविवक्षारूपा । द्वितीया अशोभनत्वाभावरूपा । मृगलोचनयेत्यादि । नन्वत्र शोभनत्वमेव प्रतीयते, न त्वशोभनत्वस्याभाव इत्यत आह - अत्रेत्यादि । अशोभनत्वस्य कातर्यदुहृदयत्वलक्षणस्याभावः । शोभनश्च पदार्थः प्रागल्भ्यसुन्दराशयत्वलक्षणः । सैषा द्विधेत्युपसंहारेण विनाशब्दाभावेऽपि विनार्थविवक्षादीनामनयोरेवान्तर्भावाद् भेदान्तरत्वं निरस्यति ॥
१. निद्रा न' क. ख. पाठः. २. 'त्वविवक्षारू' ख. पाठः,