________________
अलङ्कारसूत्रं
विनोक्तिशोभनंशोभनत्वसत्तायोमेव वक्तव्यायामसत्तामुखेनाभिधानमन्यनिवृत्तिप्रयुक्ता तन्निवृत्तिरिति ख्यापनार्थम् । एवं चान्यानिवृत्तौ विधिरेव प्रकाशितो भवति । आद्यौ यथा -
“विनयेन विना का श्रीः का निशा शशिना विना । .. — रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ॥" अत्र विनयाद्यसन्निधिप्रयुक्तश्रीविरहाद्यभिधानमुखेनाशोभनत्वमुक्तम् । यथा वा"प्रत्यक्ता मधुनेव काननमही मौवींव चापच्युता
शुक्तिमौक्तिकवर्जितेव कविता माधुर्यहीनेव च । येनैकेन विना तदा न शुशुभे चालुक्यराज्यस्थितिः
सामर्थ्य शुभजन्मनां कथयितुं कस्यास्ति वाग्विस्तरः॥" अत्रे च विनाशब्दप्रयोगमन्तरेण विनार्थविवक्षा यथाकथञ्चिदपि निमित्तीभवति । यथाँ सहोक्तौ सहार्थविवक्षा । अभावप्रतियोगिनोः शोभनत्वाशोभनत्वयो दात् । अन्यनिवृत्तीत्यादि । अन्यथा शोभनत्वाशोभनत्वयोः स्वतस्सिद्धत्वं तदभावस्य चौपाधिकत्वं न प्रतीयेत । श्रीविरहेति । अत्र विरहशब्देन श्रियः स्थैर्यलक्षणस्य शोभनत्वस्याभावः प्रतिपाद्यते, यदविनीतं श्रीविरहयति । अतो ह्यस्या अस्थिरत्वप्रसिद्धिः । उद्भटेन च काव्यालङ्कारविवृतौ सत्कवि(त्व)विरहिताया विदग्धताया अस्थैर्यस्याशोभनस्य च प्रतिपादनाय निदर्शनद्वयमिति वदता का श्रीरित्यस्य श्रीरस्थिरेत्यर्थोऽभिहितः । प्रत्यक्तेति । पूर्वत्र प्रतिक्षेपार्थेन किंशब्देन शोभनत्वाभावः प्रतीयते । इह न शुशुभे इति साक्षानिर्दिश्यते । विनाशब्दप्रयोगमिति । अत्र विनाशब्दग्रहणं निवृत्तिवाचिनो रहितादिशब्दस्याप्युपलक्षणम् । यथा सहोक्ताविति । अनुवादमुखेन सहशब्दाप्रयोगेऽपि सहार्थविवक्षायां सहोक्त्यलङ्कारत्वं दर्शयति । एवञ्च विनाश
१. 'नत्वाशो' ग. पाठः. २. “यां वक्त', ३. 'यो' क. ख. पाठः.. 'पोज्झिता' स. पाठः, ५. 'त्र वि', ६. 'णापि वि', ७. 'था हि स' क. ख. पाठः. ८. 'प' क. पाठः.