________________
४१
निरूपणम्] सन्याख्यालङ्कारसर्वस्वोपेतम् ।
“धुजनो मृत्युना सार्धं यस्याजौ तारकामये।
चक्रे चक्राभिधानेन प्रेष्येणाप्तमनोरथः ॥" अत्र करोतिक्रियापेक्षया धुजनस्य मृत्योश्च कर्मत्वम् । इयं च मालयापि भवन्ती दृश्यते । यथा“उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्ध मुखैर्नामितं __ भूपानां जनकस्य संशयधिया साकें समास्फालितम् । वैदेह्या मनसा समं च सहसाकृष्टं ततो भार्गवप्रौढाहंकृतिकन्दलेन च समं भग्नं तदेशं धनुः ॥"
सहोक्तिप्रतिभटभूतां विनोक्तिं लक्षयतिविना किञ्चिदन्यस्य सदसत्त्वाभावो विनोक्तिः॥३०॥
सत्त्वस्य शोभनत्वस्याभावोऽशोभनत्वम् । एवनसत्त्वस्याशोभनत्वस्याभावः शोभनत्वम् । ते हे सत्त्वासत्त्वे यत्र कस्यचिदसन्निधानान्निबध्येते, सा द्विधा विनोक्तिः । अत्रों
समरगतो यदुनाथः सह दुष्प्रसहेन वैरिवर्गेण ।
सुभगोनवाप्तिजनुषः सुरसुदृशां निप्रहन्ति दुःखस्य ॥ अत्र निप्रहन्त्यपेक्षया कर्मत्वेऽपि शेषत्वेन विवक्षितयोर्दुःखवैरिवर्गयोः साहित्यम् । अधिकरणसाहित्ये यथा --
शास्त्रेषु रमते सार्धं शस्त्रैर्विमतभेदिभिः ।
रविवर्ममहीपाल! को नाम भवता विना ॥ उत्क्षिप्तमित्यादि । अत्रैकस्यैव धनुष उत्क्षेपणादिषु कौशिकपुलकादिभिः सहार्थसम्बन्धान्मालात्वम् ॥
सत्त्वासत्त्वशब्दौ न भावाभाववचनौ, अपितर्हि शोभनत्वाशोंभनत्ववचनावित्याह-सत्त्वस्य शोभनत्वस्येत्यादिना । सा द्विधेति ।
१. 'क', २. 'ध', ३. 'ही' क. ख. पाठः. ४. 'त्र च शोभ', ५ 'टा' ग. पाठः.
M