________________
अलङ्कारसूत्रं
भावेनोपपत्तेः । रक्तच्छदत्वमित्यादावर्थ इयाश्रितत्वादयमर्थालङ्कारः । नालमित्यादौ तु शब्दद्वयाश्रितत्वाच्छब्दालङ्कारो - ऽयम् । यद्यपि 'अर्थभेदे शब्दभेद' इति दर्शने रक्तच्छदत्वमित्यादावपि शब्दद्वयाश्रितोऽयं, तथाप्यौपपत्तिकत्वादत्र शब्दभेदस्य प्रतीतावेकतयाध्यवसायान्नास्ति शब्दभेदः । नालमित्यादौ तु प्रयत्नादिभेदात् प्रातीतिक एव शब्दभेदः । अतश्व पूर्वत्रैकवृन्तगतफलद्वयन्यायेनार्थयस्य शब्दे श्लिष्टत्वम् । अरत्र तु जतुकाष्ठन्यायेन स्वयमेव शब्दयोः श्लिष्टत्वम् । त्यत्रोभयत्रापि प्रत्ययस्वरोणोदात्तत्वं प्रयत्नभेदाभावश्च । विकचा इत्यत्रापि अव्ययत्वाद् बहुव्रीहित्वाच्च पूर्वपदप्रकृतिस्वरत्वम् । नालमित्या (दावित्या)दिशब्देन पुष्पेषु रुचिमित्येतद् गृह्यते । उभयत्राप्यैकपद्य एकोदात्तत्वम् । भिन्नपदत्वे आद्युदात्तत्वमिति स्वरभेदः । अविरम्य विरम्य पाठात् प्रयत्नलाघवगौरवे च । ग्रन्थगौरवभयादित्यादि । पृथगुदाहरणापेक्षायां रक्तच्छदत्वमित्याद्युभयश्लेषस्योदाहरणम् । शब्दश्लेषस्य यथा
१०४
-
[शेष
क्षितिरवाप्य सुवर्णगिरिस्थितं यदुनरेश्वरमाश्रितनन्दनम् । अमरपादपदत्त परिष्क्रियामनुकरोति पुरीममरावतीम् || सुवर्णगिरिस्थितमित्यत्र पदभेदाभेदाभ्यां पूर्ववत् स्वरभेदः प्रयत्नभेदश्च । आश्रितनन्दनमित्यत्र तत्पुरुषे कृदुत्तरपदप्रकृतिस्वरत्वं समासान्तोदान्तत्वं वा, बहुव्रीहौ पूर्वप्रदप्रकृतिस्वरत्वम् | अर्थश्लेषस्य यथा
प्राप्ता रूढिं सुधर्मेति सुमनःस्तोमसेविता । परिषद् यदुनाथस्य पत्युश्च त्रिदिवौकसाम् ॥
अत्र सुधर्मेति सुमनःस्तोमसेवितेत्यत्र च पदभेदाभावात् समासभेदाभावाच्च स्वरभेदाद्यभावः रक्तंच्छदत्वमित्यादावर्थश्लेषविषयेऽपि शब्दश्लेषत्वमाशङ्कय परिहरति — यद्यपीत्यादिना । औपपत्तिकत्वादिति । 'अन्यायश्चानेकार्थत्वमि'ति न्यायात् । जतुकाष्ठन्यायेनेति । यथा काष्ठं जतुना
१. 'यमुदाहृतः । य', २. 'ताध्य', ३. 'न्यत्र' क. ख. पाठः- ४. 'त्वेऽप्युदा', ५. 'दाभ्यां' ख. पाठः .